________________
सुगतत्वात् भगवान् प्रमाणम्
निष्पत्तेः प्रथमं भावाद्धेतुरुक्तमिदं द्वयम् ।
सुगतत्त्वस्य फलस्य निष्पत्तेः प्रथमं भावात्तावदेतत् द्वयं हि हितैषित्वं शास्तृत्वं हेतुरुक्तं हेत्ववस्थाया अभिधानात् ।
(५) सुगतत्वात् भगवान् प्रमाणम्
सुगतत्वं व्याचिख्यासुराह (1)
हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिश्रयात् ॥ १४१ ॥
हेतोः समुदयस्य प्रहाणं निरोधः सुगतत्वं तच्च त्रिगुणं गुणत्रययुक्तं (1) सुशब्दस्य त्रिविधोऽर्थः प्रशस्तता सुरूपवत् । अपुनरावृत्तिः अनष्ट ज्वरवत् । निःशेषता च अपूर्णघटवत् ।
तत्रं प्रशस्तं भगवान् ज्ञातवान् सुगत इति प्रशस्तार्थमाह । निःश्रयादनाश्रयणाद् । (१४१ )
'दुःखस्य शस्तं नैरात्म्यदृष्टेश्च युक्तितोऽपि वा ।
दुःखस्य शस्तं सुगतत्वं । तत् पुनर्दु :खानाश्रयणं नैरात्म्यदृष्टेः । आत्मदर्शी ह्यात्मनि स्निह्यन् तद्दुःखसुखपरिहारप्राप्तीच्छया जन्म दुःखरूपमादत्ते । प्रहीणात्मदर्शनस्तु नैतादृश इति प्रहीणदुःखोपायः युक्तितोपि वा युक्तिपरिदृष्टेनोपा - येन वा गमनात्तत्सुगतत्त्वं प्रशस्तं ।
अथवा पुनरावृत्त्या गमनं सुगतत्वं (1) तदाख्यातुमाह ।
पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ॥१४२॥
जन्मनो रागादेश्च बोषस्य समुद्भवा पुनः पुनरावर्तनात् पुनरावृत्तिरित्युक्तौ (१४२)
क. आत्मदर्शनची जहानात् मुक्तिः
आत्मदर्शनबीजस्य हानादपुनरागमः । तद्भूतभिन्नात्मतया ;
नैरात्म्यभावनासात्म्य तु । आत्मदर्शनस्य जन्मप्रबन्धबीजस्य हानावपुनरामोऽपुनरावृत्तिः । तत्पुनरात्मदर्शनबीजस्य हानं भूता'त्सत्यात् नैरात्म्याद् भिन्ना
" लोके हि सुखं तदनुबन्धि च प्रशस्तं तद्विपरीतं सालवं । ३ भूतत्वेनात्मदर्शनसमारोपान्याकारताभिज्ञत्वेन तद्विरुद्धता । स्वभावता कथिता (1) भूतो भिन्न आत्मा यस्य तद्भावस्तया ।
* अनन्तरोक्तेन । आत्मत्वेन