SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्र० वा वृत्ती (१ परिच्छेदः) ग. नैरात्म्यदर्शनतो वासनाहानिः हेतुर्विरोधि नैरात्म्यदर्शनं तस्य बाधकम् । बहुशो बहुधोपायं कालेन बहुनास्य च ॥१३८॥ 12a अध्यात्मस्कन्धेषु तदुपकारकेषु च बाह्येषु स्नेहोस्य हेतुर्दुःखस्या त्मात्मीय ग्रहवतः स्निग्धस्य तृष्णया जन्मपरिग्रहात्। तस्य नैरात्म्यदर्शनं विरोषि विपरीतालम्बनाकारत्वात् बाधकं विपक्षः। एतं दुःखहेतुं तद्विपक्षञ्चागमादुपश्रुत्यानुमानाशिश्चित्य बहुशो अनेकशो बहुषोपायमनेकप्रकारं कालेन च बहुनास्य बौधिसत्त्वस्य गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशताम् ।। बुद्धश्च पाटवाखेतोर्वासनातः प्रहीयते ॥१३९॥ अभ्यस्यतो भावमयः तत्र दुःखहेतौ तद्विपक्षे च गुणदोषा यथायोग' प्रकाशता गच्छन्ति । अभ्यासाधीनो हि भाव्यमानबुद्धयाकारविशदीभावः । अतोऽभ्यासाद् बुद्धश्च पादवाद्धतोरात्मग्रहस्य तृष्णायाश्च वासना। कायवाग्बुद्धिवैगुण्यहेतुतः शक्तिलेशः प्रही यते निःशेषमपैति । (१३९) घ. प्रत्येकबुद्धादिभ्यो बुद्धे विशेषः परार्थवृत्तेः खङ्गादेविशेषोऽयं महामुनेः। अयमेव वासनाहानिलक्षणः खगः प्रत्येकबुद्ध आविर्यस्य श्रा'वकस्य तस्मात् सकाशात् महामुनेः सम्यक्सम्बुद्धस्य विशेषः स्वार्थसम्पत्तेः । नन्वेवमुपायाभ्यासो दर्शितो न शास्तृत्वं तस्योपदेष्टुत्वादित्याह। उपायाभ्यास एवायं तादाच्छासनं मतम् ।।१४०॥ उपायाभ्यास एवायं शासनं मतं तादात् शासनार्थत्वात् । कारणे कार्योपचारात् । (१४०) "संस्काराख्येषु। कः पुनरसौ जन्मलक्षणस्य दुःखस्य हेतुस्तद्विरुखो वा धर्म इत्याह (1) दुःखे विपश्यसित्यादिनोक्तः स्नेहः कीदृश इत्यत्रात्मेत्यादिदुःखभूता आत्मीयरहिताः स्कम्पादव एवास्य गोचरो विषयः। 'एकमात्मानन्दमयिष्यामीति नैवामात्माहोस्ति। वासनास्ति। क्लेशविसंयोगे सच परार्थवृत्तित्वात्।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy