________________
शास्तृत्वात् प्रमाणम्
.
इत्याह (1) परोक्ष उपेयो दुःखप्रशमः तदेतुश्च मार्गो यस्य तस्य तदाल्यानं यस्माद् दुष्करं (। १३४)
ख. दुःखहेतुपरीक्षणम् तत्र साक्षात्करणे परीक्षणमङ्गं तदाह (1) युक्तथागमाभ्यां विमृशन दुःखहेतुं परीक्षते। तस्यानित्यादि रूपं च दुःखस्यैव विशेषणैः ॥१३५॥
युक्त्यागमाभ्यामनुमानप्रवचनाभ्यां परस्परमविरुद्धाभ्यां विमृशन् विचारयन् दुःखस्य जन्मनो हेतुं परीक्षते मुमुक्षुः तस्य दुःखहेतोरनित्यादिरूपं आदिशब्दान्निवर्तनयोग्यतादिकञ्च परीक्षते। कथमित्याह । दुःखस्यक विशेषणः। कादाचित्कत्वादिभिः। (१३५)
कस्मात् पुनर्तुःखस्य हेतोरनित्यत्वादि परीक्षणीयमित्याह। यतस्तथा स्थिते हेतौ निवृत्तिर्नेति पश्यति । फलस्य हेतोर्हानार्थ तद्विपक्षं परीक्षते ॥१३॥
यतस्तथा स्थिते हेतौ नित्यत्वात्सदास्थिते हेचो लस्य दुःखस्य निवृत्तिनैति पश्यति जानाति (1) तस्मात् दुःखस्य हेतोर्हानार्थञ्च तस्या विपक्ष परीक्षते दुःसहेतुविरुद्धं, यस्याभ्यासाद् दुःखहेतुरपैति।
साध्यते तद्विपक्षोपि हेतो रूपावबोधतः। आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरः ॥१३७॥ साध्यते निश्चीयते तद्विपक्षोपि हेतो रूपावबोधतः । ज्ञाते हि हे तो तद्विरोधी । बोद्धं शक्यः। आत्मा त्मीयग्रहाभ्यां कृतः स्नेहः संस्कारगोचरः (११३७)
02.
.
.
१ अशुचिविज्ञगुप्त्या(?)सुखदुःखयोगद्वेगानुद्वेगौ च घृणाद्यर्थः। २ न ह्यमार्गज्ञोऽविपरीतमार्गोपदेशेऽधिक्रियते।
एतेन युक्त्यायुक्तिशून्यागमाग्रहः। तर्कमात्रत्याग आगमेन तत्र निप्रहस्थानानान्तत्वज्ञानान्मोक्ष इति नैयायिकः। प्रकृतिपुरुषान्तज्ञानादिति सांख्याः कर्मक्षयादिति दिगम्बराः।
४ दुःखहेतो नित्य च्यांग्राकारे । । तच्छून्ये तदभिनिवेशः। अस्य चाविया सहजा।