________________
५६ प्र० वा. वृत्तौ (१ परिच्छेदः) .
कपा स्वबीजप्रभवा स्वबीजप्रभवैन चेत् । विपक्षबाध्यते चित्तें प्रयात्यत्यन्तसामताम् ॥१३१॥ .पा स्वबीजप्रभवा भूयोऽभ्यस्तस्वजातीयसंस्कारवत् समनन्तरप्रत्ययप्रसूतार्थवीजप्रभवैर्न चेत् विपद्धेषादिभिर्बाध्यते स्वोत्पत्त्या व्याहन्यते चित्ते चित्तसन्ताने प्रयात्यत्यन्तसात्मतां विपक्षासंकीर्णसात्मतां प्रकृतितां । (१३१)
तथाहि मूलमभ्यासः पूर्वः पूर्वः परस्य तु। . कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे ॥१३२॥
. तथा हि मूलं कारणमभ्यासः पूर्वः पूर्वः परस्योत्तरस्य कृपावैराग्यबोधावेश्चिसधर्मस्य मनोगुणस्य पाटवे प्रकर्षे न तूत्पत्तौ। तस्याः सम्भवात्। (। १३२)
___(ङ) अभ्यासात् करुणात्मकत्वम् ततः (1) कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवत् । निष्पन्नकरणोत्कर्षपरदुःखक्षमेरितः ॥१३३॥
रूपात्मकत्वमभ्यासाद् भवति घृणावैराग्यरागवत्। यथाभ्यासात् घृणा क्वचिद्विषये बैराग्यं रागश्च सात्मीभवति (1) तदेवमभ्यासात् कृपा प्रकर्षविशे'पवती निष्पद्यत इति समर्थितमिय'चा च जगद्धितैषित्वञ्च (1) व्याख्यातं कृपायाः प्रामाण्यसाधनत्वं (। १३३)
(४) शास्तृत्वात् भगवान् प्रमाणम्
क. शास्तृत्वव्याख्यानम् शास्तृत्वव्याख्यानाय (दयां) दर्शयितुमाह (1) दयावान दुःखहानार्थमुपायेष्वभियुज्यते । परोक्षोपेयतद्धतोस्तदाख्यानं हि दुष्करम् ॥१३४॥
बयावान् बोधिसत्त्वः परदुःखं शमयितुकामः दुःखहानार्थमात्मनः उपायेषु दुःखशमनोपायेष्वभियुज्यते । कस्मात्पुनः परदुःखशमनोपायेषु युज्यत
म सर्वः किन्तु यस्य बीजं कृपायामस्ति।
बपाः। -- कारणमिति सम्बन्धः। "मेराल्ल्यदर्शनं। साधनं करणेभिप्रस्तुत्य कृपावैराग्यरागवदित्यन्तेन ॥ .