________________
httle dh
वृद्धय आहिताः स्वरसवाहिन्यो न पुनर्यत्नसापेक्षाः । तेषु यदा पुनर्वलचादयो व्याप्रियन्ते तदा समधिकमङ्गारा' दिविशेषमादधति (1) तथाभ्या' बजाः कृपादयः पुनर्यत्नानपेक्षित्वात् स्थिराश्रयत्वाच्च स्वरसेन प्रवर्तन्ते । (१२६)
तस्मोत् स तेषामुत्पन्नः स्वभावो जायते गुणः । तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः ॥१२७॥
तस्मात् स्वरसवाहित्वात्स तेषामभ्यासवतां पुंसामुत्पन्नो गुणः कृपादिः स्वभावो जायते मनसः प्रकृतिर्भवति । तदुत्तरोत्तरो यत्नः पूर्व्वपूर्व्वाभ्यासादपरापरः प्रयत्नो विशेषकृद् भवति पूर्व्वप्रयत्नकृतस्य विशेषस्य सुस्थितत्वात् । आधिक्याधानमेवापरयत्नात्। (१२७)
यस्माच्च तुल्येजातीयपूर्वबीजप्रवृद्धयः ।
कृपादिबुद्धयस्तास सत्यभ्यासे कुतः स्थितिः ॥ १२८॥
यस्माच्च कारणात्तुल्यजातीयात् पूर्व्वस्मात् बीजाद्वासनागर्भसमनन्तरप्रत्ययात् प्रबुद्धिरुत्कर्षो यासान्तास्तथा कृषादिबुद्धयः ( 1 ) तासां सत्यम्यासे कुतः स्थितिर्व्यवस्थितोत्कर्षता । ( १२८)
न चैवं लंघनादेव लंघनं बलयनयोः 1
तद्धेत्वोः स्थितशक्तित्वाल्लंघनस्य स्थितात्मता ॥ १२९ ॥
न चैवं लंघनादेव कंचनं यथा कृपादिभ्य एव कृपादयः । तथा न लंघनादेव लंघनमपि तु बलयत्नाभ्यां बलयत्नयोस्तद्धेत्वोः स्थितशक्तित्वात् सामर्थ्यनियमात् • लंघनस्य स्थितात्मता व्यवस्थितोत्कर्षता भवति । ( १२९ )
यदि बलयत्नाभ्यामेव लंघनं न स्वभावजातीयात्सदाभ्यासात्प्रागपि तावत्परिमाणं स्यादित्याह (1)
तस्यादौ देहवैगुण्यात् पश्वाद्वदविलंघनम् ।
शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः ॥१३०॥
तस्य लंघयितुरादावभ्यासात् पूर्वं देहवैगुण्यात् श्लेष्मादिकृतगौरवात् पश्चातदभ्यासानन्तरमिवाविलंघनं शनैर्यत्नेन व्यायामादिना वैगुण्ये निरस्ते स्वबले स्थितिः शरीरस्य भवति । तेन पूर्व्वस्माल्लंघनं विशिष्यते बलानुरूपस्थितिकञ्च । (१३० ) (घ) करुणा स्वबीजप्रभवा
मनोगुणास्तु सत्यभ्यासे विपक्षानभ्यासे च प्रकर्षनिष्टां गच्छन्ति । तदाह (1)
१ यावद भस्मात् स्यात् ।