________________
प्र० वा० (१ परिच्छेदः)
माहितः स चेत् विशेष (: । १२२) आधायक निवृत्तावात्मलाभाय पुनर्यत्नमपेक्षेत व स्वरसवाही स्यात् ' लङवनं यथाभ्यस्तमपि पुनर्यत्नापेक्षयैव प्रवर्तते न स्वरसवाहि । यदि स्याच्चास्थिराश्रय उदकतापवत् । क्वाथ्यमानं ह्युदकं क्षीयत एव इत्यस्थिराश्रय - उदकतापः पुनर्यत्नापेक्षी च स्वरसवाहित्वाभावात् । तदा 11b विशेषो नैव वर्द्धत प्रकर्षनिष्ठां न गच्छेत् (1) तावृशश्च विशेषो नैव स्वभावः । * प्रकृतिव्विशेषवत् । हे " तुसन्निघा 'नव्यवधानसापेक्षत्वात् प्रवृत्तिनिवृत्त्योः । (१२३)
तथा त्र (1)
तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति । साघनानामसामर्थ्यान्नित्यवानाश्रयस्थितेः ॥ १२४॥
तत्र पूर्व्वदृष्ट एव विशेषे उपयुक्तशक्तीनां साधनानां यत्नादीनां पुनरपि विशेषानुत्तरान प्रत्यसामर्थ्यात् नित्यञ्चानाश्रयस्थितेः । (१२४) विशेषस्यास्वभावत्वाद् वृद्धावप्यादितो यदा ।
नापेक्षेत पुनर्यत्नं यत्नोन्यः स्याद् विशेषकृत् ॥ १२५ ॥
आश्रयस्थित्यभावात् तादृशस्य विशेषस्यास्वभावत्वात् वृद्धावपि व्यवस्थितोंस्कर्षतैव पुनर्यत्नापेक्षित्वेनास्थिराश्रयत्वेन व्यवस्थितोत्कर्षता व्याप्तेत्यर्थः । यदा तु विशेष आहितो नापेकोत पुनर्यत्नं प्रागुत्पन्नस्यात्मनो लाभायापि तु स्वरसवाही भवति तदा यत्नोऽन्यः क्रियमाणो विशेषकृत् यथाभ्यासमुत्तरोत्तरविशेषाधायी भवति । (१२५)
(ग) स्वरसेनाभ्यासजः करुणादिप्रवाहः
काष्ठपारदहमादेरग्न्यादेखि चेतसि ।
अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः ॥ १२६ ॥
काष्ठपारवहेमावेरग्न्यादेरिव । यथाग्निना हेमचारणजार णादिना पुटपाका
farar aai marष्ठे पारदे हेम्नी व दरदाहः । रुप्यरञ्जनसामर्थ्यवणिका -
न ज्वलति ।
* लंघनादिविशेषवन्न प्रकृतिः । अन्यानपेक्षत्वात्स्वभावस्याकाशवत् ।
नैवं प्रज्ञादयोऽभ्यासात् काष्ठानिष्टां प्रतिष्ठिताः । ४ विशेषस्य ।
अग्निना । 'हेमादिना ।
" तुवदा प्रक्षिप्तानां तत्रैव क्षमनयनं । " पुटाविना कल्याणसुवर्णता । * वानी ( ? ) 1