________________
करुणाभ्यासः
५३.
शरीराबदि तेषामिन्द्रियादीनां जन्म तदा पूर्ववद्धे तुत्वे च समस्तानामित्यादिनोक्तः प्रसङ्गो भवेत्। चित्ताच्चेदिन्द्रियचित्तादीनां जन्म शरीराज्जन्मनि दोषदर्शनादिष्यते तदान्त्यावस्थायामप्यविकलत्वाच्चित्तस्य तत एवास्तु जन्म देहान्तरस्य पञ्चायतनरूपस्यानागतस्य। (१२०)
तस्मान्न हेतुवैकल्यात् सर्वेषामन्त्यचेतसाम् । असन्धिरीदृशं तेन शेषवत् साधनं मतम् ॥१२॥
d. यतश्चित्तमेव चित्तस्य हेतुः । तृष्णाकर्मसहायञ्च पञ्चायतनस्य । तस्मान हेतुवैकल्यात्। सर्वेषामन्त्यचेतसामसन्धिः चित्तस्य पञ्चायतनस्य च हेत्ववैकल्यात् कार्योत्पादस्यावश्यम्भावित्वात् (1) तेनेदेशमन्त्यचित्तत्वादि शेषवंदनैकान्तिकं साधनं मतं ॥ (१२१)
ख. युक्तः करुणाभ्यासः
(क) चित्तमात्रप्रतिबद्धत्वात् तदेवं चित्तमात्रप्रतिबद्धत्वाच्चित्तजन्मनो देहनिवृत्तावपि जन्मपरम्परासम्भवे युक्तः कृपाभ्यास इत्यभ्यासात्सेति समर्थितं।
अभ्यासेन विशेषेऽपि लवनोदकतापवत् । स्वभावातिक्रमो मा भूदिति चेद् ।
नन्वभ्यासेन विशेषेपि सत्यल्पीयसि स्वभावस्य कृपादेस्तद्विपक्ष'संकीर्णत्व• स्यातिक्रमो विपक्षाव्यवकीर्णस्वरसप्रवृत्तकृपादिमयता सात्मीभावो मा भूत् लंघनोदकतापवत्।
(ख) पुनर्यत्नापेक्षा न हि पुरुषोत्यर्थ लङघने कृताभ्यासो योजनमर्द्धयोजनं वा लङघयति । नाप्युदकमेकान्तं ताप्यमोमं दहनीभवति। किन्तु प्रकृतिसिद्धात् लङघनात् स्पर्शाच्च विशेषमा भवति यथा (1) तथोत्कर्षमात्रं स्यात् कृपया न तु सात्मीभाव इति चेत् । अत्राह (1)
आहितः स चेत् ॥१२२॥ पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिराश्रयः। विशेषो नैव वर्तृत स्वभावश्च न तादृशः ॥१२३॥
'युगपद् बहुत्वं मृतेपि।