________________
प्र० वा. वृत्तौ (१ परिच्छेदः) पारलौकिकदेहजननाद्याभिमुख्यं। तस्य लाभाय - प्राप्तयेऽङ्गतां सहकारितां न गच्छति तदा केवलं चित्तं तिष्ठति। यथा विरूपे धातौ।
कः पुनरामुत्रिकदेहहेतुः यस्य चित्तं सहकारीत्याह। हेतुर्वेहान्तरोत्पत्तौ पञ्चायतनमैहिकम् ॥११७॥ हेतुर्वेहान्तरोत्पत्तौ पञ्चायतनं पञ्चेन्द्रियाणि। ऐहिकमिदं जन्मभवं (। ११७) . तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम् । अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत ॥११८॥
यच्च तयोः कर्म ऐहिकपञ्चायतनयोर्यथाक्रममङ्गभावहेतुत्वयोः सहकारितोपादानत्वयोनिषेधे कर्त्तव्येऽनुपलम्भनं परैरुच्यते तदनिश्चयकरमनैकान्तिकमदृश्यविषयत्वात् प्रोक्तं इन्द्रियाद्यपि शेषवत्। यदपीन्द्रियादि शरीरान्तरसम्बन्धीनियादि-प्रतिसन्धातृ न भवतीन्द्रियत्वादेरिति तदपि शे षवदनैकान्तिकं बोद्धव्यं । बादिशब्दात्प्राणापानत्वादि ज्ञानत्वादि च। (११८)
b. विरुद्धत्वमपि दर्शयति । दृष्टा च शक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु । विकारदर्शनात् सिद्धं अपरापरजन्म च ॥११९॥
दृष्टा च शक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु कर्तव्येषु मध्यावस्थायां तत इन्द्रियादित्वात्। स्वजातिप्रतिसन्धातृत्वमेवैषां युक्तं । मध्यावस्थायांञ्च पूर्वावस्थातः पाट वादिविकारदर्शनात् सिद्धं प्रतिक्षणमपरापरजन्म चेन्द्रिया दीनामिति नादृष्टान्तो हेतुः। (११९)
c. ननु शरीरादेवेन्द्रियादीनां जन्मेत्याह। शरीराद् यदि तज्जन्म प्रसङ्गः पूर्ववद् भवेत् । चित्ताच्चेत् तत एवास्तु जन्म देहान्तरस्य च ॥१२०॥
'न दृष्टमेतत्सहकारित्वादीति। मध्यावस्थेन्द्रियवत् । अव्याप्तेः ।
?' अन्त्यं शरीरं। - यथा चैत्रेन्द्रियं मैत्रेन्द्रियस्यातिपरस्य विजातीयासंन्धानं दृष्टान्तः। स्वस्य तु सजातीयं सन्धायकं पूर्वेन्द्रियेण परसन्धानदृष्टः।
?" अन्त्यचित्तं न देहसहकारि देहान्तरोत्पादने चित्तत्वात् पूर्वचित्तवता "सानासहकारित्वे पूतीभावः स्यात् ।। 'प्रसमाविलत्यादिना।