SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ विशानं शक्तिनियमादेकमेकस्य कारणम् । विज्ञानं शक्तिनियमादेकविज्ञानमे'। शक्तः स्वकारणकृताया नियमादिकस्य विज्ञानस्य कारणमिति न सकृद् धियां जन्म। कुत एत'दिति चेदाह। . अन्यार्थासक्तिविगुणे ज्ञाने नार्थान्तरामाहात् ॥११४॥ अन्यस्मिन्नर्थे आसक्त्या पुनः पुनः प्रवृत्यात्मिकया विपुणे विषयान्तरसञ्चारि- Ira ज्ञानोत्पादविरोधिनि शाने पूर्वके सति विषयान्तरस्याग्रहणात् । अविगुणे तु ग्रहणात्। तस्मात् ज्ञानकायं ज्ञानं । तदन्वयव्यतिरेकानुविधानात् । (११४) . (ऊ) कर्मसिद्धिः ' ... -------- I. सहस्थितिकारणं कर्म - शरीरात सकृदुत्पन्ना धीः स्वजात्या नियम्यते। परतश्चेत् समर्थस्य देहस्य विरतिः कुतः ॥११५॥ अथ शरीरा सकृत्प्रथममुत्पन्ना धीः स्वजात्या नियम्यते परत एकस्या बुद्धेरेका बुद्धिर्भवतीति न सकृज्जन्मप्रसङ्गः। ननु बुद्धिजमने प्रथमं समर्थस्य देहस्य पश्चाद्विरति स्तज्जननात् कुतः। येन बुद्धिर्मियामिका स्यात् परतः। (११५) अनाश्रयानिवृत्त स्याच्छरीरे चेतसः स्थितिः। केवलस्येति चेच्चित्तसन्तानस्थितिकारणम्॥११६॥ ननु यदि बुद्धेर्न देह आश्रयस्तदाऽनाश्रयादाश्रयाभावात् निवृत्ते शरीरे केवलस्य चेतसः स्थितिःस्यादिति चेत् । स्यादेतत् शरीरेण सह चित्तसन्तानस्य स्थितिकारणं दृष्टं सहायं यत्कर्म (११६।) . II. आमुत्रिकदेहहेतुः पञ्चायतनमैहिकम् तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति । a. तद्यदि तस्य पारलौकिकस्य देहस्य हेतुरैहिकमन्त्यं पञ्चायतनं तस्य वृत्तिः १ सजातीयं। 'न युगपत्समानजातीयानि विज्ञानावि विजातीवालि दुस्युः। कालुष्यप्रसादादिमत्त्वपूर्वपूर्व विज्ञानेबूतरायषि तथा स्युः। . ४ गर्भादौ कायपरमाणवो जनयन्त्येकं चैतन्य। 'आरूप्यभाव। 'पञ्चायतनं 'इनिायक ..... ..
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy