________________
ve "प्र० वा. वृत्तौ (१ परिच्छेदः) रूपादय इति सम्बन्ध (1) इत्या' ह (1)
रूपादयो घटस्येति तत्सामान्योपसर्जनाः । तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योपि दिशाऽनया ॥१०४॥
पादयो घटस्य इति सम्बन्धवाचिन्या श्रुत्या तत्सामा न्योपसर्जना घटत्वTob सामान्यविशेषितास्तेषां रूपादीनां शक्तिभेदा रञ्जनादयः ख्याप्यन्ते घटव्यपदेश
विषयसमुदायान्तर्गतं रञ्जनक्षमरूपं निष्कृष्योच्यत इत्यर्थः। अन्योपि चन्दनस्य गन्ध इत्यादिव्यपदेशोऽनया दिशा वाच्यः। विस्तरस्तृतीयपरिच्छेद एवास्य। तदेवमवयव्यादीनां प्रतिषेधात् पानकादिरिव परमाणुपुञ्जरूप एव देहः प्रत्यक्षेणेक्ष्यत इति स्थितं । (१०४)
(घ) विज्ञानं कारणम्
I. परमाणूनां समुदितानां न बुद्धिहेतुत्वम् । न चास्य बुद्धिहेतुत्वं युक्त मिति प्रकृतमनुबन्ध परमाणूनां समुदितानां प्रत्येक बुखिहेतुत्वाभावं वक्तुमाह।
.. हेतुत्वे च समस्तानामेकाङ्गविकलेपि न ।
प्रत्येकमपि सामर्थे युगपद् बहुसम्भवः ॥१०॥ -यदि समस्तानां देहपरमाणूनां हेतुत्वं तदाऽवयवच्छेदादिना एकाङ्गविकलेपि देहे न स्यात् बुद्धिः (1) न चैतदस्ति । अथ प्रत्येकं ते समर्थास्तदा प्रत्येकमपि सामन्ये स्वीक्रियमाणे युगपद् बहुसम्भवः। परमाणुसंख्यानि ज्ञानानि युगपज्जायरेन् सर्वेषां प्रत्येकं सामर्थ्यात् । (१०५) .
------- II. प्राणापानयोरनियामकता . अथ प्राणापानाभ्यां नियामकाभ्यामेकमेव ज्ञानमभिव्यज्यते' ततो न पदनेका व्यक्तिरित्यत आह (1)
नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामको ।
एकत्वेऽपि बहुव्यक्तिस्तद्धतोनित्यसन्निधेः॥१०६॥ तन। परमाणुसञ्च्यात्मकत्वेन देहवत् प्राणापानयोरप्यनेकत्वस्य तुल्यत्वात् । तेषां प्रत्येकमभिव्यञ्जकत्वे युगपदनेकाभिव्यक्तिप्रसङ्गादेकज्ञानाभिव्यक्ती
'विषा रूपादीनां शक्तिः सामान्या यथा घटादेरुदकाहरणावि। प्रतिनियता विज्ञानाविजनिका। सामान्याविचिन्तायां (३.५५)। कर्णादि ।