SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ... समुदायवाचिनी श्रुतिः a. धर्मवाचिन्येव श्रुतिमिवाचिनी यदा तु स एव धर्मो धर्मान्तरसम्बन्धयोगो जिशासितस्तदा तथा संकेताद् युक्ताङ्गुलीति श्रुतिः सर्वेषां धर्मान्तराणा माशेपावनियाचिनी माता । एकस्य विजातीयव्यावृत्तिलक्षणस्यार्थस्याभिधानेप्ययम्विभागो युक्तः। यस्मात्तेन प्रकारेण विहितसंस्थितिः कृतव्यवस्था सा श्रुतिः संकेतेन । (१०१) b. समुदायवाचिनी श्रुतिः । तदेवं धर्मवाचिन्यपि श्रुतिद्धर्मान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मवाचिनी धर्मिवाचिनी वेति निर्दिष्टं। इदानीं समुदायवाचिनी दर्शयति। रूपादिशक्तिभेदानामनाक्षेपेण वर्तते । . तत्समानफलाऽहेतुव्यवच्छेदे घटश्रुतिः ॥१०२।। घटव्य 'पदेशभाजां रूपादीनामवान्तररंजना दिशक्तिभेदानामनायोपेण तेषां रूपादीनां यत्समानं फलमुदकाहरणादि तस्याहेतोरश्वादेर्व्यवच्छेदे प्रतिपाचे बट'. श्रुतिवर्तते उदकाहरणाद्यहेतुव्यावृत्ति समुदायवाची घदशब्द आहेत्यर्थः। (१०२) अतो.न रूप घट इस्पेकाधिकरणा श्रुतिः। भेदोयमीहशो जातिसमुदायाभिधायिनोः ॥१०॥ अतः समुदायाऽभिधायित्वात् न रूपं घट इत्येकाधिकरणा श्रुतिः । रूपन्यो हि धर्मवाची घटशब्दस्तु समुदायाभिधायी कथमनयोरेकार्थता। मेवोऽयमी दृ'शो जातिसमुदायाभिधायिनोर्घटत्वघटशब्दयोश्च ज्ञेयः। (१०३) ___ समुदायाभिधायी चाप्रतिक्षिप्त धर्मान्तर एव भवतीति सौवर्णो घट इत्यादि सामानाधिकरण्यं । स च द्विविधोऽनेकवृत्तिरन्यथा' च। तथा घटादि-- शब्दो' विन्ध्या द्रि शब्दश्च। यदि रूपादयःकेवला नास्त्यवयवी तदा कथं घटस्य • अङ्गुलीगताना। रूपरसा। . रक्तं चितं स्याद्विशिष्टरूपादौ च विज्ञानादि। रूपरसाखे नैका द्रव्ये एककार्यकारणशक्तिस्थापनाय । 'स्वविकल्पोपरचितं न मुख्यं गौर्वाहीकवदुपचारश्च, न गुणेषु संख्यादिवृत्तिः। न होकं रूपं एको घट इति प्रत्यये लोकस्यावसायभेवः । 'जातिशब्दत्वात्। समुदायभेदापेक्षयाऽन्यानाक्षेपाय। 'समुदायाभिधायी। • अनेकघटवृक्षादौ। १० एकगिरौ स्वसमुदायापेक्षः।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy