________________
प्र० वा वृत्तौ (१ परिच्छेदः) गुणद्रव्याविशेषः स्याद् भिन्नो व्यावृत्तिभेदतः। स्वादनान्तरार्थत्वेप्यकर्माद्रव्यशब्दवत् ॥९८॥
एवञ्च सति गुणानां द्रव्याणाञ्चाविशेषः स्यात् संकीर्णलक्षणत्वात् । क्रियावत् गुणवत्समवायिकारणं द्रव्यमिति लक्षण' स्य द्वयोरपि भावात् । कथं पुनरभिन्नार्थत्वेप्यपर्यायत्व 'मित्याह। विजातीयेभ्योऽनेकासंयुक्तादिभ्यो व्यावृत्तेर्भेदात् भिन्नः प्रत्ययश्चैको घट: संयुक्तो घट इत्यादि। अकर्म द्रव्यमद्रव्यं कर्मेति' शब्दाविव भिन्नो व्यतिरिक्तार्थाभावेपि। न हि त्वन्मतेप्यकर्मद्रव्यशब्दयोरों द्रव्य कर्मभ्यां भिन्नो वस्तुभूतोस्ति ॥ (९८).
___B. संख्याधभावेऽप्येकत्वसंयोगयोर्व्यपदेशः । यदिन सन्ति संख्यादयः कथं घटस्य कत्वं संयोगो वा इत्यादि व्यपदेश इत्याह। व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः। संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम् ॥९९॥
व्यतिरेकीव भेदवदिव यच्चापि संख्यादि तद्वतो द्रव्याद् भाववाचिभिः द्रव्याभिधायिभिः शब्दः सूच्यते घटस्यैकत्वमित्यादि। तत्सूच्यमानमेकत्वादिधर्मान्तरस्य शुक्लत्वादेः भेदकं। यद्यपि घटानकत्वादयो भिन्ना वस्तुतस्तथाप्येकत्वशुक्लत्वादयो घटात्परस्परं चानुवृत्त्यननुवृत्तिभ्यां कल्पितंभेदाः। (९९) . श्रुतिस्तन्मात्रजिज्ञासोरनोक्षिप्ताखिलोपरा।
मिन्नं धर्ममिवाचष्टे योगोऽगुल्या इति क्वचित् ॥१००॥. - तेषु यदैको धर्मः प्रतिपि'त्सितः तदा भेदेन निर्दिष्टः स धर्मान्तरप्रतिक्षेपको भवति घटस्यैकत्वमित्यादि तदा तन्मात्रस्यैकधर्ममात्रप्रतिपित्सोः प्रतिपाद्यस्यानरोधेन च तथा संकेतवशात् प्रयुक्ता श्रुतिरनाक्षिप्तोऽविषयीकृतोऽपरोखिलो घमों (व्यवच्छेदकं ।) यथासम्भवी यया सा तादृशी धर्मिणो धर्मान्तरेभ्यश्च भिन्नं निष्कृष्टमिव धर्ममाचष्टे यथाऽङगुल्या योग इति। (१००)
युक्ताङ्गुलीति सर्वेषां आक्षेपाद् धर्मिवाचिनी। ख्यातैकार्थाभिधानेऽपि तथा विहितसंस्थितिः ॥१०॥
'गुणद्रव्ययोः गुणकर्मणोश्च समवायात्। बौद्धस्यापि।
अकर्मकस्वादौ परेण व्यतिरेको नेष्टोऽभिमतादतो व्यावृत्तिमुखेनैव ते स्थाप्याः - अकर्मत्वमद्रव्यत्वञ्चास्येति। अत्र व्यावृत्तिरेव शरणं।
व्यतिरेकषष्ठी। 'प्रतिपत्तुमिच्छुः ।