________________
४५
food यथा पक्त्यादौ एकां महती गच्छतीत्यादिशब्दज्ञाने । न हि तत्र संख्यादयः सन्ति निर्गुणत्वाद् गुणानां । नष्टाजातेषु वा यथा । एको द्वौ बहवो नष्टा भवि - ष्यन्ति वेति शब्दज्ञानवत् । नष्टमजातञ्च स्वयमेव नास्ति किं पुनस्तत्र संख्यादयो भविष्यन्ति । (९४)
संख्यादिनिरासः
मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धनः ।
स एव सर्वभावेषु हेतुः किं नेष्यते तयोः || ९५॥
मतो यद्युपचारो गुणादिषु संख्यादिव्यपदेशस्य स उपचार इष्टो यद्मिबन्धनो' गुणादिषु संख्याद्युपचारस्य हेतुर्यः स एव सर्व्वभावेषु हेतुः किलेष्यते तयोः शब्दज्ञानयोः येन संख्यादयः कल्प्यन्ते प्रमाणबाधिताः ॥ ( ९५ )
उपचारो न सर्वत्र यदि भिन्नविशेषणम् । मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत् ॥ ९६ ॥
उपचारो न सर्व्वत्र यदि मुख्ये सत्युपचारो भवति न तु सर्व्वत्रैवा "सौ । भिन्नविशेषणं मुख्यं यत्र भिन्नं विशेषणमस्ति तन्मुख्यं अन्यत्रोपचारः । भिन्नविशे षणं 10a मुख्यमित्येतदेव कुतो निश्चितं अभिने भिन्नार्थतेति चेत् । (९६)
यदि संख्यादि भिन्नं नास्ति तदा घट एकः संयुक्तो महान् गच्छतीति शब्दानां पर्यायता स्यात् । न चास्ति ॥
अनर्थान्तरहेतुत्वेप्यपर्यायः सितादिषु ।
संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि ॥९७॥
नर्थान्तहेतुत्वेप्यपर्यायः सितादिगुणेषु संख्या 'दियोगिनः शब्दा दृश्यन्ते । अत्राप्यर्थान्तरं यदि । सितादौ संख्यादि तिष्ठति । ततस्तच्छब्दानामपर्यायतापत्तिः । (९७)
लोकव्यवहारनिबन्धनः ।
ु
पृष्टः सिद्धान्तिनंकं मुख्यमिति आह ।
3 तादृशं ते मुख्यलक्षणं । अविशिष्टं स्वतो द्रव्यं विशिष्यते संख्यादिना तत् विशेषणं तस्य भिन्नं ।
" तस्मान्नार्थविषयाः सिद्धा । अत्र बौद्ध आहानेकान्ततां ।
* गुणेन गुणान्तरमित्यर्थान्तराभावात् यथैकं शुक्लं संयुक्तं विभक्तमित्यादि । • अर्थान्तरनिमित्तं ।