________________
प्र० वा० वृत्तौ (१ परच्छेिदः)
नानागुणिद्रव्येषु संयोगो रसरूपादयश्च समवेता इत्येकार्थसमवायात्तद्धर्मस्य पानकादिषूप' चारतो रसरूपादियोग इष्टश्चेत् । तर्हि क्षीरादौ पानकादौ च मुख्य मुख्यत्वेन स्पष्टास्पष्टतया मृष्टादिबुद्धेर्भेदः स्यात् । न हि माणवकेऽग्निबुद्धिरुपचारादग्नाविव भवति । पंक्तिर्वीर्घेति वा कथं पंक्तिषु समवेता पक्तिः संख्या गुणो वा स्यात् ( 1 ) न च तत्र दैर्घ्यमस्ति निर्गुणत्वाद् गुणानां (1) नापि कवितषु दैर्घ्यमस्ति येनैकार्थसमवायादुपचारः स्यात् ( । ९२)
b. संख्यादिनिरासः
૪૪
एतच्चाभ्युपगम्योक्तं न तु संख्यादयः सन्ति तदाह (1) संख्यासंयोगकर्मादैरपि तद्वत् स्वरूपतः । अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ॥९३॥
संख्यासंयोगकम्मवि (: 1)
आदिशब्दाद्विभागपरत्वापरत्वसामान्यादेरपि तद्वत्स्वरूपतो द्रव्यस्वभावाद् भेवेनाभिलापाच्च । संख्यासंयोग इत्यादिकात् । बुद्धौ • द्रव्यग्राहिण्यां रूपं न भासतेऽभासमानञ्च दृश्याभिमतं दृश्यानुपलब्धया बाषितं । (९३)
• यदि संख्यादयो न सन्ति कथमेको घटः संयुक्तो महान् पततीत्यादि व्यपदिश्यतेदाभावे पर्यायता प्राप्नोतीत्यत आह ।
शब्दशाने विकल्पेन वस्तुभेदानुसारिणा ।
गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ||९४||
शब्दज्ञाने एको घट इत्यादिके कल्प्यार्थे कल्पितार्थे विकल्पेन (1) कीदृशेन वस्तुभेदानुसारिणा वस्तुनो भेदो विजातीयाद् व्यावृत्तिस्ताम्विषयत्वेनानुसरता गुणादि
" द्रव्यधर्मे गुणे ।
* आदिना क्षीरोदकादि ।
* यदि यत्र परमाणुषु रसादयः समवेतास्तत्र संयोगोपीति संयोगो रसोपचारतहि भारादिवत्पानके रसबुद्धिर्माभूवस्ति च ।
1
' यचेकार्थसमवायात्तद्धर्मोपचारतो उपदेशः पंक्तिः संयोगत्वाद् गुणः । न तत्र वैध्यं गुणोति नापि पक्षिषु कथमुपचारतोपि निर्देशः । न हि प्रत्येकं पक्तिषु वैष्यमस्ति तथाभूतं । येनेकार्थसमवधि उपचारबीजं स्यात् ।
* यथवयविनं विनाऽदर्शनं तदा कथं सूतहेममिश्रं दृश्यते । न हि तद्द्द्रव्यारम्भकं विजातीयानारम्भात् अन्यथा सर्वं सर्व्वेरारभ्येतेति सिद्धान्तः ।