________________
प्र० वा वृत्तो (१ परिच्छेदः) अनन्य सत्वनेयस्य ईश्वरप्रतिषेधात्। हीनस्थानप' रिग्रहो गर्भस्याश्रयत्वेन स्वीकारः आत्मस्नेहवतः सतृष्णस्य दुःखे सुखमिति विपर्यासः। तस्य दुःखसुखयोयथाक्रम त्यागाप्तिवाञ्छया। सतृष्णो हि दुःखे सुखमिति विपर्यस्तः आत्मनि स्निग्धो जन्माक्षेपककर्मवशात् सुखहेतुं गर्भस्थानं मन्यमानः परिगृह्णाति।(८२)
___I. अविद्या-तृष्णे बन्धकारणम् ततश्च (i) दुःखे विपर्यासमतिः तृष्णा चाबन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥८३॥ दुःखे विपर्यासमतिस्तृष्णा चाबन्धकारणं आश्लेषहेतुर्जन्मिनः। तृष्णया आत्मस्नेहोप्याक्षिप्तो हेतुवद्वेदितव्यः । यस्य तून्मूलितात्मग्रहस्य ते विपर्यासस्तृष्णा च न स्तो न विद्यते न स जन्माधिगच्छति ॥(८३).
__II. गत्यागत्योरदर्शनं इन्द्रियापाटवात् गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् । भदृष्टिमन्दनेत्रस्य तनुधूमागतियथा ॥८४॥
भाविजन्मन्यतीताच्च जन्मनो यथाक्रमं गत्यागती न दृष्टे चेत् । इन्द्रियाणामपाटवात्सा अदृष्टिरदर्शनं ते सूक्ष्मस्यान्तराभवशरीरस्य। मन्दनेत्र स्य पुंसस्त मधूमस्यागतिरदर्शनं यथा। न ह्यदृश्यस्यादर्शनादभावः । (८४) ..
III. मूर्तस्याऽपि मूर्ते प्रवेशः . . 9a · ननु मूर्त न मूर्तान्तर'मनुप्रविशति प्रतिघातात् (1) मूर्तञ्चान्तराभवशरीरमित्यत आह (1)
तनुत्वान्मूर्तमपि तु किञ्चित् कचिदशक्तिमत् । जलवत् सूतवद्धग्नि नादृष्टेनासदेव बा ॥८॥
"अपराधीनस्य मक्षिकाणामशुचिस्थानग्रहकामिनां स्त्रीकुणपशरीराविपरि
दुःखे गर्भादिस्थानेभिरतिः सुखमेतविति ।
परिणतोऽभिरतिपुरःसरः प्रपातपातादिविलक्षणः । "किमित्याह उपहतचक्षुषः। विरलः। कथं गर्भ प्रविशति ।