SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ - ३९ पुनर्जन्मपरिग्रहः ___यथा शार्दू'लशोणितादीनां यथाक्रमं श्रवणेक्षणतः सन्तानातिशये क्वचिद् भीरुतमे मोहावय आदिशब्दाद् भयरोमहर्षादयो विषयविकृतबुद्धिद्वारेणेव सम्भवन्ति । न हि मोहादीनां शार्दूलशोणितादय उपादानकारणानि किन्तु विषयाः सन्तः परम्परयोपकारकाः तथा रागस्मृतिभ्रंशादयोपि बोद्धव्याः।(७९) तस्मात् स्वस्यैव संस्कारं नियमेनानुवर्तते । तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् ।।८०॥ तस्मात् स्वस्यैव संस्कारं नियमेनानुवर्तते। तत्रान्तरीयकं चित्तमेषितव्यमतश्चित्तमाश्रितं चित्तं चित्तसँस्कारस्यैवानुवर्तनात्। देहसंस्कारन्तु व्यभिचरति प्रतिसंख्यानबलिनामित्युक्तं । (८०) चेतःशरीरयोर्भेदपक्षणाश्रयाश्रयिभावो युक्त इति प्रतिपाद्य शक्तिपक्षेप्यभेवात्मके दोषमाह (1) यथा श्रुतादिसंस्कारः कृतश्चेतसि चेतसि । कालेन व्यज्यतेऽभेदात् स्याद् देहेपि ततो गुणः ॥८१॥ यथा श्रुताबिसं स्कारः कृतश्चेतसि पुनर्यथा प्रबोधप्रत्ययं चेतसि कालेन क्रमभाविना व्यंज्यते तथा अभेदाच्चित्तशरीरयोः स्यात् बेहेपि ततः संस्कारप्रबोधकात् प्रत्ययात् गुणोऽभिव्यक्तः (1) ततश्च देहं पश्यता भूतादिसंस्कारोपि तदात्मभूतो दृश्यो दृश्येत । तस्माद् देहस्याश्रयत्वप्रतिषेधात् तद्विनाशे चित्तविनाशो नेति जन्मपरम्परासु युक्तः कृपाभ्यासः । (८१) .. __(ग) पुनर्जन्मपरिग्रहः कथं पुनर्जन्मपरिग्रह इत्याह (1) अनन्यसत्वनेयस्य हीनस्थानपरिग्रहः। आत्मस्नेहवतो दुःखसुखत्यागाप्तिवाव्छया ॥२॥ १ देहश्चित्तमुपकरोति चित्तं प्रज्ञादीन् । चित्तेऽनुपकारिणि सति तु न विशेषः । व्याघ्र इहेति श्रुत्वा बिभेति।। समानजातीयविकल्पविज्ञानस्य पूर्वकस्य । न च दृश्यते। श्रुताविसंस्कारेण संस्क्रियमाणेपि मनोविज्ञाने मनो न बेहसंस्कारः।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy