________________
ob
प्र० वा० वृत्तौ (१ परिच्छेदः)
अथ देहादपि स्वस्थात्प्रज्ञादेरुत्कर्षो दृश्यत इति तद्विकारविकारित्वमस्त्येवेत्याह ।
स्यात् ततोऽपि विशेषोऽस्य न चित्तेऽनुपकारिणि ॥७६॥
स्यात् ततो देहादपि विशेषोस्य प्रज्ञादे' र्न चित्तेऽनुपकारिणि । चित्तं हि स्वस्थ. देहोपकृतसौमनस्यमभ्यासविशेषवत् प्रज्ञादिकमुत्कर्षयति । न गुणेपि चित्ते देह एव । (७६)
३८
अमुमेव न्यायं रागादावाह ।
रागादिवृद्धिः पुष्ट्यादेः कदाचित् सुखदुःखजा ।
तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधेः ॥७७॥
यापि रागादिवृद्धिः पुष्ट द्यावेः सापि न सर्व्वदापि तु कदाचित् प्रकृत्या मन्दरागस्य प्रतिसंख्यानबलिनश्च पुष्टस्यापि रागावृद्धेः । यदापि भवति तदापि न केवलात्पुष्ट्या'देः किन्तु सुखदुःखजा । सुखाद्रागः दुःखाद् द्वेषः इति न चित्तनिरपेक्षो रागादिहेतुर्देहः । तयोश्च सुखदुःखयोर्द्धातुसाम्यादेरन्तरर्थस्यानुग्राहकस्यान्तः स्प्रष्टव्यविशेषस्यान्तरस्य स्पर्शज्ञानविषयीकृतस्य सन्निर्जन्म । सुखदुःखज्ञाने अपि विशिष्टविषयपूर्व्वज्ञानसापेक्षे एव न देहमात्रजन्ये इत्यर्थः । (७७)
एतेन सन्निपातादेः स्मृतिभ्रंशाद्यो गताः । विकारयति धीरेव न्तरर्थविशेषजा ॥७८॥
एतेनान्तरोक्तन्यायेन सन्निपातादेरादिग्रहणाज्ज्वरादेः स्मृतिभ्रंशादयो गौता व्याख्याताः । धीरेव हि पूविकाऽन्तरर्थविशेषाद्धातुवैषम्याज्जाता तद्ग्राहिणीं चित्तसन्तति विकारयति स्मृतिप्रमोषाद्युपहतां करोति । ( ७८)
शार्दूलशोणितादीनां सन्तानातिशये क्वचित् ।
मोहादयः सम्भवन्ति श्रवणेक्षणतो यथा ॥ ७९ ॥
न मुख्यः किन्तु परम्परया ।
उत्कर्षति ।
'बुद्धघुत्कर्षादिनिरपेक्षः केवलो वेहो रागादिनिमित्तमित्याह । धातुसाम्याद् वैषम्याच्चान्तः स्प्रष्टव्यविशेषेण कायविज्ञानमनुगृह्यते विक्रि
यते च तद्विकल्पं जनयति ततो रागद्वेषौ परम्परया कायात् । -
वैषम्योपप्लुता