SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विज्ञानसिद्धिः ते चान्येष्विति यावत् परमाणव आश्रयावध' यः तेषां नित्यत्वात्तदाश्रितं द्वयणुकं नित्यमित्यनया परम्परया गुणोपि नित्यः स्यादित्याह ( 1 ) तस्मात् सर्वस्य भावस्य न विनाशः कदाचन ॥७३॥ तस्मात्सर्व्वस्य भावस्य बुद्ध्या 'देः शुक्लादेश्च न विनाशः कदाचन प्राप्नोति । (७३) किञ्च (1) स्वयं विनश्वरात्मा चेत् तस्य कः स्थापकः परः । स्वयं न नश्वरात्मा श्वेत् तस्य कः स्थापकः परः ॥७४॥ स्वयम्विनश्वरात्मा चेत् भावस्तस्य कः स्थापकः पर आश्रयाभिमतो न कश्चिदसामार्थ्यात्। स्वयं न नश्वरात्मा चेत् तस्य कः स्थापकः परः स्वयमविनाशितयैव स्थितेर्व्वैयर्थ्यात्स्थापकस्य । (७४) C. उपादानोपादेयभावनिरासः पुनश्चित्तशरीरयोरुपादानोपादेयतां निषेद्धु' माह ( 1 ) . बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि । प्रज्ञादेर्भवतो देहनिर्ह्रासातिशयौ विना ॥ ७५ ॥ ३७ बुद्धिव्यापारभेदेन न मनोज्ञानस्याभ्यासविशेषेण निर्ह्रासातिशयावु पचयापचयावपि प्रज्ञादेरादिशब्दान्मैत्री करुणावैराग्या'दीनां भवतो देहस्य निर्ह्रासातिशय विना । तस्माद् बुद्धिरेवोपादानकारणं तद्विकारविकारित्वात् न देहो विपर्ययात् । (७५) इदं दीपप्रभादीनामाश्रितानां न विद्यते । इदमाश्रयविकारं विनापि विकारित्वं दीपप्रभावी 'नामाश्रितानां न विद्यते तद्विकारविकारित्वात् । १ इति नित्यमेव स्थितिः । अस्ति च नाश इति किमाश्रयस्वीकारेण । ४ सन्मित्रासन्मित्रसंयोगादिना । ५ 'नाशः सहेतुको निर्हेतुको वा उभयथा स्थितिहेतुवैकल्यार्थं । " यत् प्रज्ञादीनां देहोत्कर्षापकर्षनिरपेक्षत्वं बुद्धधधीनत्वञ्च । 9 तन दीपप्रभावीनां तन देहमाश्रय इत्यभिप्रायः ॥ २ नित्यभूताश्रितत्वात् चैतन्यस्यापि ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy