SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ३६ 'प्र० वा. वृत्तौ (१ परिच्छेदः) निष्क्रियत्वात्मिाधारः गुणिव्यक्त्यादिभिर्गुणसामान्यकर्मणां पदार्थानां । (७०) B. समवायसमवायिभावनिरासः .. एतेन समवायश्च समवायि च कारणम् । व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात् ।।७१॥ एतेनाश्रयायिभावप्रतिषेधेन समवायो' ऽयुतसिद्धानामाधायांधारभूतानामिहेति प्रत्ययहेतुर्यथा व्यक्तिसामान्ययोः समवायिकारणञ्च स्वसमवेतकार्यजनक यथात्मादि बुद्धयादीनां व्यवस्थितत्वं जात्यादेः कासुचिदेव व्यक्ति षु' गोत्वं वर्तते केषु चिदेव च देहाकारपरिणतेषु चैतन्यमित्या दि निरस्तमनपाश्रयादाश्रयप्रतिषेधात्। तन्मूलत्वाच्चासां व्यवस्थानां । (७१) (स्थितिस्थापकतानिरासे संग्रहश्लोकः) उक्तमर्थं श्लोकत्रयेण संगृह्णन्नाह। .. परतो भावनाशश्चेत् तस्य किं स्थितिहेतुना । स विनश्येद् विनाऽप्यन्यैरशक्ताः स्थितिहेतवः ॥७२॥ परतो मुद्गरादेर्भावस्यानश्वरस्य नाशश्चेत् तस्य कि स्थितिहेतुनाश्रयेण स्वयमनश्वरत्वादेव न नंक्ष्यति। अथ नश्वरस्वभावोसौ तदा स विनश्येत विना- . प्यन्य शहेतुभिरशक्ताः स्थितिहेतवो भावं नश्वरं स्थापयितुं नर'वर स्वभावस्यावश्यं नाशात् ।(७२) किञ्च (1) स्थितिमान् नाश्रयः सर्वः सर्वोत्पत्तौ च साश्रयः । स्थितिमान् नाश्रयः सो भावः। तत्र यो नाम कश्चि नित्याश्रयो यथा सुखादिरात्माश्रितः। सर्वः स नित्यं स्थितिमान् स्यात् स्थापकस्य सदा स्थितेः । कश्चिदनित्याश्रयो यथा शुक्लत्वादिः कार्यद्रव्याश्रितः । सर्वोत्पत्तावसर्वश्चोत्पद्यमानः। साश्रय इति द्रव्यादिरपि साश्रयः। तदाश्रयोपि कपालादिः खण्डोवयविषु समवेतः। 'अपृथक् सिद्धानां द्रव्यगुणादीनां। 'गव्येव। आदिना। • आभयनिषेधे समवायावेव सिद्धः। अंकुरादीनां वा। । "सर्वः। नाशयति 'यो नामानित्याश्रयस्तस्याप्यन्यो यावमित्याः परमाणव इत्याह।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy