________________
प्र० वा. वृत्ती (१ परिच्छेदः) निष्पन्नत्वात् नाश्रयः कश्चित् । असतोऽपि वा कारणं किञ्चित् स्यात् । न त्वाश्रयः स्वरूपस्यैवाभावात्। सतः स्थितिकारणमाश्रयश्चेदिष्यते (1) नैतदपि युक्तमस्याः स्थातुरव्यतिरेकतः। न हि स्थिति म स्थातुः पदार्थात् भिन्ना यां कुर्वत आश्रयत्वं ।
iii व्यतिरेकेऽपि नाश्रयः
व्यतिरेकेऽपि तद्धतुरतेन भावस्य किं कृतम् । व्यतिरेकेऽपि वा स्वीक्रियमाणे त बेतुराश्रयः स्यात् । तेन चाश्रयोभिमतेन 8a भावस्य स्थितिमतः किं कृतं येनासावाश्रयः।
iv. नोत्पन्नया स्थित्या भावस्थापना
स्यादेतद् (1) भावसम्बन्धिनी स्थितिर्भावं स्थापयति तेन तत्कर्तुराश्रयत्वमित्याह (1)
अविनाशप्रसङ्गः स नाशहेतोमतो यदि ॥६६॥ तुल्यः प्रसङ्गस्तत्रापि;
यदि स्थित्योत्पन्नया भावः स्थाप्यतेतदान कदाचिदस्य भा वस्य विनाशः स्यात् स नाशहेतोर्मुद्गरादेमतो पदि (१६६) तुल्यः प्रसङ्गस्तत्रापि । नाशोऽपि न तावद् भावादव्यतिरिक्तः क्रियते तस्योत्पन्नत्वात् व्यतिरिक्तेऽपि नाशे कृते भावस्तदवस्य इति प्राग्वदुपलम्भादिप्रसङ्गः।
किञ्च (1) ५. नाशस्य सहेतुत्वे स्थितिहेतुनिष्फलः -
किं पुनः स्थितिहेतुना । श्रा नाशकागमात् स्थानं ततश्चेद् वस्तुधर्मता ॥६॥ नाशस्य;
यदि नाशहेतुना नाशः क्रियते तदा किं पुनः स्थितिहेतुनाश्रयेण यावन्ना शहेतु पतति तावत् स्वयमेव स्थास्यति। आपतिताच्च तस्मान्नैष रक्षणक्षम इति
- 'यस्य पुनरवृष्टं किञ्चिवपरं सहकारि नास्ति यच्छक्तिक्षयावस्थिभिचैतन्ये स्यात्।
एकाहियष्टयोरपि कालदष्टो त्रियतेऽन्यो जीवतीत्यस्ति। स्थितः। न स्थितिकारणात्कुण्डाविवाश्रयः किन्तु। ....