________________
प्र० वा० वृत्ती (१ परिच्छेदः)
तत्राद्यस्य विकारस्याल्पोपि विकारः श्यामतादिकोऽसंहार्योऽनिवर्तनीयः । प्रस्यानेयो निवर्तनीयस्तु यत्कृतो विकारस्तस्य विकार्यस्य पुनर्भावः स्यात् विकारनिवृत्त्या पूर्व्वावस्थापत्तिः । वह्निकृते द्रवत्वे निवृत्ते हेम्नि खरत्ववत् । दृढत्वमिव । (५९)
३२
ननु यदि निवर्तनीयो दोषविकारस्तदा न कश्चिदसाध्यो विषिः स्यादित्याह ॥ दुर्लभत्वात् समाधोतुरसाध्यं किञ्चिदीरितम् ।
आयुः क्षयाद् वा ; दोषे तु केवले नास्त्यसाध्यता ॥ ६० ॥
यत्किञ्चिदसाध्यं व्याधिजातमुक्तं तत्समाधातुः सद्यो दोषशमनौषधरसायनादेर्दुर्लभत्वात् कर्म्माक्षिप्तस्यायुषस्तच्छरीरसहचरचैतन्यादिस्थितिहेतोर्व्वा
क्षयात् । भूतमात्रवादिनः केवले दोषे तु स्वीक्रियमाणे नास्त्यसाध्यता कस्यचिद् व्याधेः। भूतमात्रारब्धस्य दोषस्य चिकित्सादृष्टेः । विशेषकारिणश्च हेतोर - भावात् । (६०)
तथा (1)
मृते विषादिसंहारात् तद्दंशच्छेदतोऽपि वा । विकारहेतोर्विगमे स नोच्छ्वसिति किं पुनः ॥ ६१ ॥
विषादिना मृते प्राणिनि सति दंश स्थाने विषादेः संहारात् संगणनासस्य बंशस्थानस्य च्छेवतोपि वा विकारहेतोर्मरणहेतोव्विषादेव्विगमात् स मृतः पुनर्नोच्छ्वसिति । कस्मात् ( 1 ) चैतन्यहेतोर्देहस्य विकारत्वात् युक्त' मुच्छ्वसितुं । (६१)
किञ्च (1)
उपादानाविकारेण नोपादेयस्य विक्रिया ।
कर्त्तुं शक्याऽविकारेण मृदः कुण्डादिनो यथा ॥६२॥
यद्युपादानं देहश्चित्तस्य तदोपाद (नस्य देहस्याविकारेण विकारं विनोपावेयस्य चित्तस्य विक्रिया न कर्त्तुं शक्या स्यात् । यथा कुण्डाद्युपादानभूताया मृबो विकारेण
' चिकित्स्यते च ज्ञानादिकृती विकारः तस्मात्पूर्व्वप्रसङ्गस्तदवस्थः । काष्ठविकारवदेनमाह परः । * सिद्धान्ती ।
कालमरणे ।
8 'असाध्यव्याधिश्च तत्तत्कर्मवशात् । अकालमरणे ॥ तुल्यव्याध्योस्तुल्यौषधयोश्च चिरक्षिप्रोपशमश्च दृश्यत एव कर्मकृतः ।
• यावज्जीवति तावद् व्याप्नोति विषं मृते तु वंशस्थानं यातीति नियमः ।