________________
प्र० वा. वृत्तौ (१ परिच्छेदः) - एतद्धेतुद्वयसिद्धयर्थमाह (1)
प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः ।
बहिरन्तश्च प्रेरणाकर्षणे वायोर्यथाक्रमं प्राणापानौ पुरुषस्य बुद्धिलक्षणं प्रयत्नम्बिना कुतः सम्भवतस्तस्मात् तदधीनौ।
किञ्च (1) निर्हासातिशयापत्तिनिहासातिशयात् तयोः॥५४॥
यदि प्राणापानहेतुकञ्चित्तं तदा चित्तस्य निर्हासातिशया पत्तिरपकर्षोत्कर्षापत्तिः। निर्हासातिशयात्तयोः प्राणापानयोः कारणविशेषानुकारित्वात् कार्य विशेषस्य। (५४)
___तुल्यः प्रसङ्गोपि तयोः; ___ अपि च तयोरपि प्राणापानयोःहे तिष्ठत्यनिवृत्तिप्रसङ्गस्तुल्यस्तद्धेतुत्वात्तयोः। ततो मरणकाले प्राणापानवैकल्याभावाच्चित्तानिवृत्तिप्रसङ्गस्तदवस्थः।
b. स्थित्यावेधकत्वात् कारणं कर्म
स्यादेतत् (1) चित्तकारणेऽपि चित्ते स्वीक्रियमाणे मरणसमये चित्तानपायात् -चित्तोत्पत्तौ यावद्देहेऽनिवृत्तिप्रसङ्ग इत्याह (सिद्धान्ती)।
न तुल्यं चित्तकारणे । स्थित्यावेधकमन्यच्च यतः कारणमिष्यते ॥५५॥
न तुल्यं चित्तकारणे चैतन्ये प्रसञ्जनं। न खल्वनुवर्तकमेव कारणमिष्टं येन नित्यं तस्मिन्नाश्रये स्यात्। किन्तर्हि (1) स्थित्यावेधकमन्यच्च कर्माख्यं कारणं यत इष्यते तस्मात्तेन कर्मणा यावत्कालं तद्देहे स्थितिराक्षिप्ता तत ऊर्ध्वं हेत्वपायान्न प्रवर्तते देहान्तरे तु वर्तत इत्यसमानत्वं । (५५)
'वृत्तिकृता (?) एतत्पदमनङ्गीकृत्य व्याल्यातम् । पुनः परमतमाशकते न कार्य चैतन्यस्य कारणं किन्तु । -- 'तभावात् प्रेरणाकर्षणवत्।
यथा मृतावस्थायां शरीरे तिष्ठति किन्तच्चैतन्यं न भवतीति चोचं बौद्धन तथा प्राणापानावपि कस्मानिवते येन तदभावान्न चैतन्यम्।
परः मृतदेहे तिष्ठति चित्तं किन्न स्यादिति बौद्धस्य प्रसङ्गन सह। । अनेकान्तत्वमुक्तं परस्य।