________________
परिशिष्टं (१)
५२९
प्रतिपादनोपायविधानार्थी धर्मधर्मिविभागः (1) गमकन्तु लिङ्गं स्वलक्षणमेव (1) तथा चाह (1) धर्मधर्मितया भेदः कल्पितो नार्थोपीति । धूमाल्लिङ्गाल्लिङ्ग- - (b) नि ज्ञानमुत्पद्यमानं न धूम एवाध्यारोपेण प्रवर्त्तते किन्त्वन्यत्र प्रदेशे । मणि-भ्रान्तिस्तु मणिप्रभाख्य एव लिङ्गे लिङ्गिनमारोपयन्तीति चेत् । ततः किं न (:)
यता (1) सम्बन्धादुत्पन्नत्वं हीयते देशभ्रान्तिरत्राधिकेत्येतावत्तु ब्रूमः ( 1 ) तत्रैव देश मणिप्रापकत्वे माभूत्प्रामाण्यं मणिमात्रप्रापणे तु केनानुमानत्वं वार्यते (1) सर्वञ्चानुमानं भ्रान्तमिष्यत एव । मणिभ्रान्तावन्वयव्यतिरेकस्मरणन्नास्तीति चेत् । यदि नास्ति न तावतानुमानत्वाभावः यो ह्यन्वयव्यतिरेकावस्मृत्वा द्रागेव घूमाहिनं प्रत्येति तदा किं तज्ज्ञानमनुमानं नेष्यते । त्रिरूपात्तु लिङ्गात्तदुत्पद्यत इत्येतावतानुमानमिति ब्रूमः । यद्यनुमानमेव मणिप्रभायां मणिभ्रान्तिः किमर्थं हि सा दृष्टान्तीक्रियते ( 1 ) न ह्यनुमानस्य सामान्येनाविसम्वादे साध्येऽनुमानस्यैव दृष्टान्तत्वं युक्तं । अयमप्यदोषो यतो मणिभ्रान्ते भ्रान्तत्वेपि परो वक्तृविसम्वादमात्रमिच्छति । अन्यस्य तु धूमादिलिङ्गस्याभ्रान्तत्वं वस्तुप्रतिभासित्वं चान्यथा ह्यविसम्वादित्वं न स्यादित्यतो मणिभ्रान्तिर्दृष्टान्तत्वेनोपादीयते इति । तदेतद्बहुतरञ्च दुःखञ्च दुरुपपादञ्च विसम्बादकञ्चासम्बद्धञ्चेति न विदुषां प्रीतिकरमिति वयमत्र ब्रूमः ॥ 11 11 ॥
मणिप्रभायां मणिज्ञानं न प्रमाणं सत्यार्थाजनितत्वान्न प्रत्यक्षं । नाप्यनुमानं ( 82 ) तल्लक्षणाभावात् । यो हि यल्लक्षणहीनः स तेन रूपेण व्यवह्रियते यथा गौर्वाजिरूपेणेत्यतिप्रसिद्धमेतत् (1) त्रिरूपाल्लिङ्गान्निश्चितादनुमेये ज्ञानमनुमानं (1) तदत्र - नान्वयो ( 1 ) न हि या या प्रभा सा सर्वा मणिरित्यन्वयः सिद्ध्यति (1) नापि व्यतिको ( 1 ) यो मणिर्न भवति स प्रभापि न भवतीति । व्याप्यव्यापकभावासिद्धेः । नापि पक्षत्वं मण्याकारज्ञानस्य प्रभाजनितस्य मिथ्यात्वात् । न चागृहीतसम्बन्ध लिङ्गादनुमेयं प्रत्येति । योप्यविधानेन द्रागेव प्रत्येति स पूर्वमेव गृहीत - सम्बन्धोऽनुमेयं लिङ्गात्प्रतिपद्यतेऽन्यथा प्रतिपत्तेरयोगात् । नापि धूमवद्वह्नेः कार्यत्वेन मणेः प्रभा प्रतिभासते कारणरूपेणैव तस्याः प्रतिभासनाज्ज्ञापकत्वाच्च (1) निश्चितं लिङ्गं भवति नानिश्चितं सन्दिग्धधूमवत् ( 1 ) न चात्र निश्चयोस्ति मिथ्याज्ञानत्वात् ।
"
यत्तूक्तं (1) प्रभायामभ्रान्तमेव चक्षुर्विज्ञानमादो जायते तेन कार्यत्वं प्रभाया निश्चीयत इति ( 1 ) तदेतदतिसाहसमिन्द्रियज्ञानमेवेदं स्पष्टत्वात् विरक्तज्ञानवत् भ्रान्तमिन्द्रियादिदोषात् प्रभां मणिरूपेणाविच्छिन्ददुत्पद्यते ( । ) न च तत्र प्रभाकारो वेद्यते (1) न चासम्वेद्यमानाकारमालम्वनं सर्वेषामालम्वनत्वप्रसंगात् ( । ) न चेयं
६७
1