________________
५२८
प्र० वा. वृत्तौ० (४ परिच्छवः) पर्युदास एवैको नञो विषयः। किन्तहि (1) प्रत्यक्षप्रतिषेधोपि । न हि तस्यासति विरोधः। सो पि न सम्भवति। अधिकरणाद्यर्थानां प्रतिषेधविषयोपदर्शिनीनां विभक्तीनामयोगादिति चेत् । उक्तोत्तरमेतत्। तस्मान्न हेतुः कश्चिदन्वयी नाम । न च प्रमेयत्वस्य विपक्षेऽन्वयात्मा सः। त्रिविधो हि धर्मो भावाभावोभयाश्रय इत्युक्तः। नाभावस्य' कश्चिद्धर्म इति चेत्। नन्वयमेवास्य धर्मविरहो धर्मः। न हि वस्तुरूपमेव धर्मा असन्तोपि हि केनचित्प्रकरणेन इमं व्यवहारमुपनीयन्ते। अन्यथा हि तत्राव्यवहार एव स्यात् । न च सतामपि परमार्थतः कश्चिद्धर्ममिभावः । केवलं बुद्धिरेव सम्बन्धमुपरचयतीत्युक्तं वा ति के । बुद्धिकृता च घटनाऽसत्सु केन वार्यते । सदसदुभयानुभयव्यवस्थाश्च तदतत्समयवतामनिश्चितसाधना नैकान्तग्राहिण्यः स्युस्तस्माद्यथा कथञ्चिदप्यनेना (सत्ता) निश्चिताः। प्रमेयास्ते वक्तव्याः। न हि भावविषयमेव प्रमाणं । अविसंवादलक्षणत्वात्प्रमाणस्य । उल्लसती तद्वारे न व्यवस्थापयेत्। न चेत्स्वविषये परेण वाध्येत। तदन्यप्रमाणलक्षणम-- स्तीति प्रमेयो...........।
११-"अभिप्रायाविसंवादा" (२०५६)दि। "मणिप्रदीपप्रभयोरि"-(२।५७) त्यादि वा ति क श्लों क द्वयवृत्तौ वक्ष्यते ।
केचिदाहुः (1) यदि मणिप्रभायां मणिज्ञानं भ्रान्तमपि सम्वादादनुमानमिष्यते(0) प्रमाणमविसम्वादिवचनात् तदा प्रत्यक्षानुमानव्यतिरिक्तं तृतीयमिदं प्रमाणमापतितं (1) तथा हि मणिप्रभायां मणिबुद्धेर्न प्रत्यक्षं भ्रान्तत्वात्सविकल्पकत्वाच्च । प्रत्यक्षत्वं त्वेतद्विपरीतं । नाप्यनुमानमलिङ्गजत्वात्। न चाप्रमाणं वस्तुसम्वादात्।
अंत्रोच्यते । अनुमानमेवैतत् (i) तथा हि सामान्यमनुमानस्य लक्षणमनन्तरं स्थापयिष्यते (1) परोक्षस्याप्यन्यतः सम्बन्धाप्रतिपत्तिरनुमानमिति। इह च मणौ मणिप्रभासम्बन्धात्तत्कार्यत्वात् तस्याश्च प्रभायां मणिभ्रान्तिरुत्पद्यते (1) ततः कार्यलिङ्गजत्वादनुमानमेव। तथाहि (1) मणिप्रभायामादावभ्रान्तमेव चक्षुर्विज्ञानमुपजायते। तेन च कार्यलिङ्गस्वरूपमधिगतं यतः स्वलक्षणमेव लिङ्गं। तादात्म्यतदुत्पत्तिभ्यां च गमकत्वं स्थितं। न च कल्पितरूपस्यान्यत्वं । तादात्म्यतदुत्पत्ती वा स्तः। - कथं स्वलक्षणेनान्वय इति चेत् । न ब्रूमस्तेनैवेति किन्तु तज्जातीयेन स्वल
क्षणान्तरेण । तथा चोक्तं (1) तज्जातीयोपि हि नामाभेदविवक्षायां स एवेति (1) • तस्मात् समानजातीयस्वलक्षणान्येव विजातीयव्यावृत्युपाधिकानि साकल्येना
पेक्षितानि सामान्यमित्युच्यन्ते। यत्रापि कृतकत्वादयो व्यवस्थाप्यन्ते तत्रापि मूढ