________________
परिशिष्टं (१)
५२७
ध्यमनन्वयाशङ्कया । नापि घटा (b ) नित्यत्वं शब्दे साध्यमसंभवात् । यदि घटानित्यत्वं शब्दं प्रति ज्ञायते तदाभ्युपेतविरोधः । शब्दे घटानित्यत्वस्यानभ्युप• गमात् । आदिशब्दादनुमानविरोधोप्यन्यधर्मस्यान्यत्र बाध्यमानत्वात् । शब्दभेदेन च कल्पने साध्यविकलतादोषो दृष्टान्ते । असिद्धेन विनाशेनेति । धर्मिविशेषापरिग्रहेण विनाशसामान्यस्य सिद्धत्वात् । तद्वत इति विनाशवतः ।
अन्येनैव प्रकारेण सद्वितीयत्वप्रयोगेऽन्वयवैकल्यादिकमस्माभिरुक्तं तया त्वन्यथैव परिकल्प्य तुल्यदोषतापादनं कृतमित्येतत्कथयितुमाह । न हीत्यादि । अन्यतरार्थान्तरत्वं सामान्यं घटे साध्यधर्मिणि कुड्ये च दृष्टान्तधर्मिणि उपनीतमिति प्रतिक्षिप्तं साध्यमिष्टं परस्य साध्यधर्मिगतम्वान्यतरार्थान्तरत्वं साध्यं दृष्टान्त भगतम्वेति यावत् । कुतो नानात्वे सति नानत्वेति तत् ( ? ) न ह्यत्रान्यतरार्थान्तरत्वं कुड्यधर्मो घटेस्ति साध्यं नापि घटधर्मः कुड्ये साध्यमिष्टमन्वे• तीति साध्यवैकल्यादिकं ब्रूमो येन तुल्यदोषता स्यात् साध्यधर्म एव तादृश इति (1) यथोक्तपुरुषघटापेक्षयान्यतरार्थान्तरभावलक्षणः निरूप्यमाणो न सिद्धोस्ति ( 1 ) न हि घटस्यार्थान्तरभावो विरोधात् । देहस्याप्यनन्वयाशङ्कया नेष्यते तेनेत्येतावता सामान्येन शब्दः साध्यतेऽयोगव्यवच्छेदेन केनचिदनित्यत्वेनायोगमिच्छन्तीति तत्संबन्ध: साध्यते (।) तथार्थान्तरभावे स्यात् तद्वान् कुम्भोपीति सूत्रं व्याख्यातुमाह । अन्यतरार्थान्तरभावस्त्विति । तु शब्दो विशेषे । यथाऽनित्यत्वं वस्तुधर्मो न तथा सद्वितीयत्वं वस्तुधर्मः । इच्छाबलेन च व्यवस्थापनात् । न ह्येतत्कार्यं स्वभावो वा भावस्य युज्यते त्विच्छाबलेन संचार्यार्थान्तरत्वेपि वर्त्तमानत्वात् । तद्वान् कुम्भ इत्यस्य विवरणमन्यतरसद्वितीयघट इति...
X
X
(हेतुः )
१०- ( ३३१) कान्तिक एव प्राणादिः । साधारणमपि खलु प्रमेयत्वमसंस्कृताप - b वादिनः। असमन्वययोगात् । अव्यभिचारितान्वयः स पक्ष एवास्तीति ।
अन्वयनमेव हेतुमाह । अत्रापि कथमव्यतिरेको विपक्षात् । कथम्वा पक्ष वास्तीति । किं ( सप) क्षस्यावधारणस्य फलं यदि न विपक्षेऽस्तित्वं व्यवच्छिद्यले व्यवच्छेदे वा कथमव्यतिरेकः । न हि सत्ता प्रतिषेधादन्यो व्यतिरेकः । विप्रतिषिद्धं चैतत् । नान्वयो न व्यतिरेक इति । म एवं खलु नेत्यन्वयप्रतिषेधः स एव व्यतिरेक इति । तत्पुनरिदमायातमसतोव्यतिरेकायोगादिति । अत्रेदमेव पुनर्वाच्यं कथमसतोऽन्वयप्रतिषेध इति वस्तुरूपानुकर्षी खल्वसति प्रतिषेधो न सम्भवेत् । न हि