________________
પ્રસ્ત
न परिक्लेशितो देवानांप्रियः स्यादिति । विरुद्धाव्यभिचार्य्यपि संशयहेतुरुक्तः स प्रोक्तः ( ? ) । अनुमानविषये तस्याभावात् । न हि संभवोस्ति कार्यत्वाभावयोरुक्तलक्षणयोरनुपलम्भस्य वा विरुद्धाव्यभिचारितायां । न चान्यो व्यभिचारी । तस्मादव (शि) ष्टबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साघनदोष उक्तः । शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहारसम्भवात् । न हि अस्ति सम्भवो यथावस्थितवस्तुस्थिति स्वात्मकार्यानुपलम्भेषु । तत्रोदाहरणं सर्वगतं सामान्यं सर्व देशावस्थिते: । . . .
X
X
प्र० वा० वृत्ती ० (४ परिच्छेदः)
5
X
( भूतचैतन्यमतनिरासः )
९ - (११३७) आस्तिकानां महाभूतव्यतिरिक्तं ज्ञानं संसरति जन्मान्तरेपि । नास्तिकानान्तु महाभूताव्यतिरिक्तं दृष्टमात्रे ह्येवं ते प्राहुः। महाभूतानामेवाभिव्यक्तिविशेषो मदशक्तिवच्चैतन्यमिति । अभिव्यक्तं चैतन्यं यस्मिन्देहे स तथाभूतो देहः स्वभावो यस्य पुरुषस्य स तथा । पश्चाद् घटशब्देन द्वन्द्वः । निर्द्धारणे षष्ठ्याः सप्तम्या वा द्विवचनमेतत् । अवयवावयविसम्बन्धे वा षष्ठी । तयोरन्यतरेण घटेन पुरुषेण वा सह द्वितीयेन वर्त्तत इति च द्वितीयः । व्याजेन च महाभूताव्यतिरिक्तं चैतन्यं प्रयोगेण साधयति । अस्ति हि दृष्टान्तेऽनुत्पत्यात्मकस्य कुड्यस्यान्यतरेण घटेन सद्वितीयत्वमेकेनापि सद्वितीयत्वेऽन्यतरेण सद्वितीयत्वं सामान्येन सिद्धमिति न साध्येनान्वितं निदर्शनम् । तथा घटस्यापि साध्यधर्मिणोऽशेषघटपक्षीकरणे तेनैव सद्वितीयत्वमयुक्तमिति सामान्येनापि साधने तथाभूतेन पुरुषेण सद्वितीयत्वं पारिशेष्यात्सिध्यतीति मनो मन्यते । अत्रेत्यादि । तादृशस्य पुरुषस्यानुक्तावपि इच्छाव्याप्तस्य साध्यत्वात्तस्य चासिद्धत्वात् दृष्टान्तेऽनन्वयदोषः । साध्यसामान्येनेति । तादृशैव पुंसा विशेषणेन सद्वितीयत्वं साध्यते घटस्य यतों विशेषापेक्षया दोषद्वयं स्यात्किन्तु सामान्येनान्यतरसद्वितीयत्वं धर्मिणो वक्तुमिष्टमतोयमदोष इत्यसारम्। सामान्यस्यैवाभावात् । सद्वितीयं हि घटेन वा स्यादुक्तपुरुषेण वा । तत्र घटस्य साध्यधर्मित्वेनाश्रयणात् नानेन सद्वितीयत्वमभेदात् भेदाधिष्ठानं हि सद्वितीयत्वं । नापि पुरुषेणानन्वयदोषादिति । एतदेवाह (1) तवेव सामान्यं न सिद्ध्यतीत्यादि । अनाप्तैरभ्युपगम उक्तप्रकारेण देहेभ्योन्तरं नाभ्युपगम्यते परेणानन्वयादिदोषात् । तुल्यं नाशेपीति । यथा हि घटेन घटस्य सद्वितीयत्वं विरोधात्साध्यमुपपद्यते । नापि तादृशा पुरुषेणानन्वयशङ्कयेत्युभयाभावेन सामान्येन साधनं तथात्रापीत्याह । घटशब्दभेदेनेत्यादि । न शब्दे शब्दानित्यत्वं सा