________________
५३०
, प्र० वा० वृत्तौ० (४ परिच्छेदः) मानसी भ्रान्तिरिन्द्रियदोषनिवृत्तौ पुनः स्वरूपेणैव विषयग्रहणात्। न च तादात्म्य
प्रतिबन्धो मणिप्रभयोर्भेदात् विषये चाधिगते ज्ञानस्य प्रमाणाप्रमाणत्वञ्चेति। (8b) (8b) तेन हि निविषया कस्यचित्प्रवृत्तिरस्त्यत्र च मणिज्ञानं प्रभाविषयं
न च प्रभा मणिर्येन यथाध्यवसायं प्रवर्त्तमानः स कृती स्यात् । अनुमानन्तु लिङ्गरूपतां न व्यभिचरति (1) अनर्थजन्यतया च तन्मिथ्याज्ञानं भ्रान्तन्तु सामान्याकारणाविजातीयव्यावृत्तरूपता हि वस्तुनः स्थितैवान्यथा विजातीयतद्रूपमपि तद्वस्तु स्यादिति तदाकारो वस्तुसन्धायी। प्रभायान्तु न मणिरूपता विजातीयव्यावृत्तरूपास्ति प्रभामात्रालम्बनत्वात् (1) अनुमानस्य त्वनुमेयाकारत्वेन वस्तुसंस्पर्शात् (1) सति प्रतिबन्धे प्रामाण्यं प्रभायान्तु मणिज्ञानं नैवमिति नेदमनुमानम् (1) अत एव “वादिप्रतिवादिप्रसिद्धपक्षाद्वहिःस्थितमिति दृष्टान्तीकृतं प्रतिबन्धस्यात्यन्तमाहात्म्यप्रदर्शनार्थं यदेवं प्रकारमविसम्वादकं परमार्थेन त्वप्रमाणमेवेदमि"त्यन्तं मिथ्याज्ञानत्वादत एव शास्त्रकारो वक्ति। ... "मिथ्याज्ञानाविशेषेपि विशेषोऽर्थक्रियां प्रती"ति ।
• एतदेव- व्याचष्टे। अत्र हि मिथ्याज्ञानात्प्रदीपप्रभायां मणिरूपेण ग्रहणान्नेदं विशिष्यते किन्तु मिथ्याज्ञानमेवेदं कपा...... पुटकुञ्चिकाविवरदृश्यमानायां प्रदीपप्रभायां मणिज्ञानवत् (1) मिथ्याज्ञानत्वमनूद्य व्यतिरेकमाह (1) "विशेषोऽर्थ क्रियां प्रती"ति। अपिशब्दस्त्वत्रातिशय। तदेवं शास्त्रकारवचनं न्यायञ्चोल्लंघ्य यत्प्रामाण्यप्रतिपादनं तदत्र कपटप्रकटनमित्यसारविचाराद्विरम्यते॥
१२–एवमपि यदा सम्वति (?) तदानुमानस्य सुतरामविसंवादः (1)
१३- (१॥३७) यद्यप्यपूर्वसत्वाप्रादुर्भावो बुद्धाश्चापर्यन्तास्त्र्यध्वसु तथापि न संसारक्षयोस्त्याकाशाक्षयतापर्यन्ततेव। एकैकस्यां दिश्यन्तत्वात्सत्ववाहोः॥
अन्यत्र गतचित्तोपि चक्षुषा रूपमीक्षते।। तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना॥ सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना। अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ तदुपेक्षिततत्वाथैः कृत्वा गजनिमीलनम्। केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते॥