________________
२८
प्र० वा. वृत्तौ (१ परिच्छेदः) इन्द्रियस्याभावे तज्ज्ञानाभावात् । अन्त्ये साध्याविशिष्टत्वं हेतोः। मनोज्ञानस्यैव साध्यत्वात्। ___ उच्यते (1) यथा स्पर्शा' दयः स्पर्शज्ञानेन' चेतयन्ते न तथा नखकेशादय इत्यचेतनाः। चेतनाप्रतिबद्धञ्च मनोविज्ञानं तदभावे न स्यात्।।
B. कर्म a. कर्मभेदात् कायमनसोः सहस्थितिः ननु यदि न काय आश्रयः कथं सहस्थितिरित्यत आह।
हेत्वभेदात् सहस्थितिः । अक्षवद् रूपरसवदर्थद्वारेण विक्रिया ॥५०॥
हेतोः कर्मसंज्ञितस्याभेदात्। एकसामग्रीप्रतिबद्धत्वात् सहस्थितिः । न त्वाश्रयाश्रयिभावात् । अक्षवद्रूपरसवत्। यथाऽक्षाणि रूपरसादयश्च परस्परमनाश्रयाश्रयिभूता अप्येकसामग्र्यधीनत्वात् सहस्थितिमन्तः। ननु यो यद्विकारेण विक्रियते स तदाश्रितो यथा चक्षुरादिविकारेण विक्रियमाणन्तज्ज्ञानं चक्षुराद्याश्रितं। विषश्लेष्मादिना कायविकारे च विक्रियते मनोविज्ञानं अतस्तदाश्रितमित्याह (1) तज्ज्ञानरुपकार्यत्वादिनोक्तमपि। अर्थद्वारेण विक्रिया आलम्व्यमाना हि शस्त्रप्रहारादयो विकारयन्ति मानसं न त्वाश्रय त्वेन । (५०)
i. उपकारको निवर्तकश्च हेतुः सत्तोपकारिणो यस्य नित्यं तदनुबन्धतः । स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते ॥५१॥
न चोपकारक इत्येवाश्रयः किन्तु निवर्तकः। तदाह। यस्य सत्ता निवर्त्यस्य उपकारिणी स हेतुः स एवाश्रयः। कथमुपकारिणी(।) नित्यं तस्य निर्वर्त्यस्यानुबन्धतो ऽनुवर्तनात् । यस्य तु कदाचिदुपकारकत्वमसौ विशेषस्यैव हेतुर्न धर्मिणः
'स्पर्शमात्रस्य केवलासम्भवादादिशब्दः। तज्ज्ञानरुपकार्यत्वाविनोक्तमपि। २ किमिव। ३ नियतसहभावो नेति च तुल्यं देहमनसोर्वा कल्प्यमनोमात्रत्वात् ।
४ एतेन कारणात्प्राङ निष्पन्नं तत्सहभावि वा न कार्यमिति भिन्नाभिन्नसन्तानयोः सामान्यः कार्यकारणभावः।
" स्वसन्निधिभावेन . . . . त्या कार्यकारीत्यर्थः मृत्पिण्डं घटकारीव। यथोपाध्यायः तदसत्त्वेऽप्यस्य सत्त्वं ।