________________
बिज्ञान सिद्धि:
२७
स्यादेतद् (1) भवत्सिद्धान्तसिद्धमर्हच्चित्तमसन्मानन्तत एव दृष्टान्तसिद्धिः । अत्राह (1)
असिद्धार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते । हेतोर्वैकल्यतस्तच्चेत् किन्तदेवाऽत्र नोदितम् ॥४८॥
असिद्धार्थोऽनिश्चितार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते तदनुरोधेन परलोकस्याभ्युपगमप्रसङ्गात् । अथ हेतोराश्वासप्रश्वासेन्द्रियपाट' वादेवैकल्यतो मरणचित्तस्य तदप्रतिसन्धानमिति चेत् । किन्तदेव हेतुवैकल्य मत्राप्रतिसन्धाने साधनत्वे नोवितं । दृष्टान्तविकलन्तु मरणचित्तमुक्तं । आश्वासादिहेतुत्वनिषेधञ्च वक्ष्यति । ( ४८ ) f. कायस्याहेतुत्वम्
तद्धीवद् ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात् । ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि ॥४९॥
सेन्द्रियोपि प्रत्येक
इव विकल्प्यमानेषु
कायश्च हेतुर्भवन् सेन्द्रियो वा स्यादनिन्द्रियो वा । मिन्द्रियैः सहितः समस्तैर्व्वा (1) तत्र प्रथमपक्षे तस्या इन्द्रियधिय रूपादिषु स्पष्टतरस्य ग्रहणस्य प्राप्तेः । मनोज्ञानं न सेन्द्रियात कायात् । इन्द्रियजन्यस्य स्पष्टतयाऽभ्रान्तज्ञानादिषु व्याप्तिदृष्टेः । द्वितीयपक्षेप्याह (1) प्रत्येक - मिन्द्रियाणां रूपादिग्रहणप्रतिनियतज्ञानोत्पादनसामर्थ्यभेदात् दृष्टात् । न सकलादपीन्द्रियकलापात् ' प्रतिनियतविषयाग्राहिणो मनोविज्ञानस्य सम्भवः । एकेन्द्रि- 72 यवैकल्येप्यनुत्पादप्रसङ्गाच्च । (४९)
नाप्यनिन्द्रियो हेतुरित्याह
अचेतनत्वान्नान्यस्माद् ;
अचेतनत्वान्नान्यस्मादनिन्द्रियात् केशनखादेरिव मनोज्ञानं ।
नन्वचेतनत्वं किमिन्द्रियज्ञानरहितत्वमुत मनोज्ञानविमुक्तत्वं (।) तत्राद्यमिष्टमेव
'अर्हतश्चित्तस्य हेतोः ।
मरणचित्तत्वादिति हित्वा ।
अत्र रम्यापुरुषे ।
४. अब्यवधानेन च । तस्मादुत्तरबुद्धिजननसमर्था वासनारूपा कर्म्मसंशिता
पूर्व्वबुद्धिरेवाश्रय इति स्थितं ।
* सामान्यविषयत्वादस्य ।
तृतीयः तदा सम्बन्धाद् गवाश्ववत् पृथग्भावः स्यात् ।