SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्र० वा० बृसी (१ परच्छेिदः) नाक्रमात् क्रमिणः ? कार्यस्य भावः । क्रमरहितत्वात् कारणस्य । त ' निष्पा द्यान कार्याणि सकृज्जायेरन् । क्रमवतः सहकारिणोऽपेक्ष्य क्रमाज्जनविष्यतीति चेत् नाप्यविशेषिणः स्थिरैकरूपस्य परैरनाधेयविशेषस्य परेषां सहकारिणामपेक्षाऽस्ति । तस्मात्क्रमाद् भवन्ती धीः कायात्क्रमन्तस्यापि कायस्य शंसति । (४५) ततश्च (1) प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् । तस्य हेतुरतो हेतुर्हष्ट एवास्तु सर्वदा ॥४६॥ प्रतिक्षणमपूर्व्वस्य बुद्धीन्द्रियकायसमुदायस्य कार्यस्य पूर्व्वः पूर्व्वः क्षणस्तादृशो हेतुर्भवेदतः कारणादनन्तरस्य बुद्धीन्द्रियादेर्हेतुर्मध्यावस्थावद् दृष्ट एव बुद्धीन्द्रियादिकलापः सर्व्वदा ऐहिकजन्मादौ वामुत्रिकजन्मादौ चास्तु । (४६) c. चित्तान्तरेण सन्धानम् ननु यदि सविज्ञानकायत्वात् तथाभूतजननानुमानेन परलोकसिद्धिः तदा मरणचित्तत्वाच्चित्तान्तराप्रतिसन्धानमर्हच्चरमचित्तवदिति कस्मान्नानुमीयत इत्याह ( 1 ) चित्तान्तरस्य सन्धाने को विरोधोन्त्यचेतसः । तद्वदप्यर्हतश्चित्त' असन्धानं कुतो मतम् ॥४७॥ चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतसो मरणचित्तस्य न कश्चित् । तथा हि (1) न तावन्मरणचित्तेन चित्तान्तरसन्धानस्य सहा "नवस्थानलक्षणो विरोधः निवर्त्त्यनिवर्तकत्वाभावात् । नापि परस्परपरिहारस्थितिलक्षणः " अमरणचित्तव्यवच्छेदेन मरणचित्तस्यावस्थानात् । तद्वदप्यर्हतश्चित्तमसन्धानं कुतः प्रमाणात् मतं येन दृष्टान्तः स्यात् । न ह्यर्हन् भवतां " सिद्धः । तद्बाधनाय यत्नात् । (४७) अथाभ्युपगम्यते तदा तस्य क्लेशविसंयोगकृतमसन्धानं नान्यथा स च न पृथग्जनानामिति कथन्तेषां मरणचित्तमसन्धानं । क्लेशविसंयोगो हि प्रतिसन्धानविरोधी लक्ष्यते न मरणचित्तं ॥ " क्षणिकत्व । * सर्वचा विशेषेण हेतुरिति चेत् इत्यस्य न नियमः । ३ इन्द्रियविज्ञानादीनि । ● अनुमापयति । प्रीतिदौर्मनस्यादित्वेन भिन्ना प्रतिक्षणं वेद्यमाना बुद्धिर्यदि नित्येष्यते तदातत्त्वान्तरं पञ्चमं स्यात् आलोकान्धकारवत् । भावाभाववत् ! मनोज्ञानं । • न तु संतानचित्त (?) व्यवच्छेदैन । चार्वाकाणाम् । 'अनम्यस स्वनेयस्येत्यादिना प्रतिसन्धानं स्नेहात् वक्ष्यते नं सोऽर्हतः । भाविकारणानुपलब्धिः । एवं मन्यते न परेण । ८
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy