________________
स्वभावानुपलब्ध्या विषयिणः प्रतिषेधः
4 सति नैमित्तिकभावनियमाभावात् सत्यनुपलम्भेऽसत्ज्ञानादिव्यवहार ऐका - न्तिको न स्यादित्याह (1)
सिद्धो हि व्यवहारोयं दृश्यादृष्टावसन्निति ।
तस्याः सिद्धावसन्दिग्धौ तत्कार्यत्वेपि धीध्वनी ॥ २६६॥
सर्व्वस्यैव हि दृश्यादृष्टावसन्निति व्यवहारोयं निमित्तान्तरनिरपेक्षः सिद्धः । तस्या दृश्यादृष्टेः सिद्धौ सत्यां असदिति धीध्वनी कार्यत्वेप्यसदिग्धौ नियतप्रवसिद्ध । यद्यपि कार्यं न कारणेन नियतभावं तथापि यदि क्वचिद् भावव्यवहारः प्रवर्त्यते तदानुपलब्धिमाननिमित्तत्वादन्यत्राप्यनुपलब्धौ सत्यां स प्रवर्त्तनीय इत्यर्थः। (२६६)
विद्यमानेपि विषये मोहादत्राननुब्रुवन् ।
केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः ॥ २६७॥
अभावव्यवहारस्य विषये दृश्यादर्शने विद्यमानेपि केवलं मोहादसत् ज्ञानशब्दव्यवहारानननुब्रुवन् नानुवदन् परोऽसद्व्यवहारविषयतया सिद्धेन घटेन दृष्टान्तेन दृश्यादर्शनवत्तायाः साधर्म्यात् समयं व्यवहारं स्मार्यते । पूर्व्वमपि त्वया दृश्यादर्शनमात्रकोऽसद्व्यवहारः प्रवत्तितः । तत्सद्भावादिहापि प्रवर्त्तयेति परः प्रतिपाद्यते। (२६७)
दृष्टान्तमाह ।
५०७
कार्यकारणता यद्वत् साध्यते दृष्टयदृष्टितः । कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः ॥ २६८ ॥
कार्यकारणता दृष्ट्यदृष्टितो दर्शनादर्शनाभ्यामन्वयव्यतिरेकग्राहकाभ्यां यद्वत् साध्यते । न हि वस्तुतो दर्शनादर्शनाभ्यामन्या कार्यकारणता । किन्तु तयोर्दर्शनादर्शनयोहि संक्षेपेण व्यवहाराय कार्यादिशब्दाः कल्पिताः । ( २६८ ) ततश्च (1)
कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियम् । हेतु प्रभेदाख्याने न दर्शितोदाहृतिः पृथक् ॥ २६९॥
कारणात् दृश्यादर्शनात् असत्ज्ञानशब्दव्यवहार' कार्ययोग्यतासंसिद्धिः 104b स्वभावहेतावन्तर्गमान्न हेत्वन्तरं । तेनेयं स्वभावानुपलब्धिर्हेतुना प्रभेदस्याख्याने क्रियमाणे स्वभावहेतुनैव दर्शितोदाहृतिर्न पृथक् निद्दिष्टा । ( २६९ )
भवतु तावद् दृश्यानुपलब्धेरसद्व्यवहारयोग्यतासिद्धिः। सैव तु कथं सिध्यतीत्याह ।