________________
प्र० वा० वृतौ० (४ परिच्छेदः)
तदन्वयव्यतिरेकानुविधानाद् भावसत्ताव्यवस्थानस्योपचारात् सैव सत्ता । यथा चोपलब्धिरेव सत्ता तथाऽनुपलब्धिरेवाससेति तादात्म्यमनयोः सम्बन्धः ।
(२) अनुपलब्धेरभावसिद्धौ लिङ्गलिङ्गिग्रहणप्रयोजनम्
एवं तर्ह्यनुपलब्धिरेवाभावसिद्धिरित्यलं लिङ्गि लिङ्गभावेनेत्याह । इत्यज्ञज्ञापनायैकानुपाख्योदाहृतिर्मता ॥ २६३ ॥
५०६
अभावः सिद्धत्वान्न साधनार्हः । तस्मादभावं पश्यतोप्यव्यवहरतोऽज्ञस्य मूढस्य शान्तयाभावव्यवहाराय एका स्वभावानुपलम्भोदाहृतिर्मता (1) सा चानुपलब्धिरनुपाख्या वस्तुतोऽभावात्मिका । (२६३)
(३) स्वभावानुपलब्ध्या विषयिणः प्रतिषेधः
यद्यभावः स्वभावानुपलब्ध्या न साध्यते किन्तर्हि साध्यत इत्याह । विषयासत्वतस्तत्र विषयि प्रतिषिध्यते । -ज्ञानाभिधानसन्देहं यथाऽदाहादपावकः ||२६४||
तथान्या नोपलभ्येषु नास्तितानुपलम्भनात् । तज्ज्ञानशब्दाः साध्यन्ते तद्भावात् तन्निबन्धनाः ॥ २६५॥
2
तत्र स्वभावानु ( प ) लम्भे विवयासत्वतो ज्ञानाभिधान ' सन्देहानां विषयस्यासत्त्वतः कारणाद् विषयि प्रतिषिध्यते । किन्तद्विषयीत्याह । ज्ञानमभिधानञ्च सन्देहश्च ज्ञानाभिधानसंदेहं । सदिति ज्ञानं सदित्यभिधानं । अस्ति न वेति सन्देहश्चानुपलब्धिलक्षणादभावान्निषिध्यते (1) सत्त्वविषया हि सत् ज्ञानादयः । तदभावे निषिध्यन्त इति न्याय्यं । दृष्टान्तमाह । यथा गुञ्जादौ वह्नित्वसन्देहे कश्चिदाह पावकोयमिति ( 1 ) दाहादिनिमित्तो हि वह्नि त्वव्यवहारः तदभावात् प्रतिषिद्धः । यथोपलब्धेरन्या नास्तिता तथोपलभ्येषूपलब्धिलक्षणप्राप्तेष्वनुपलम्भादन्या नास्तिता न भवति । किन्त्वनुपलब्धिरेव नास्तित्वं ( 1 ) तस्मात् तन्निबन्धना अनुपलब्धिनिमित्ताः तत् ज्ञानाभिधानव्यवहारास्तस्यानुपलम्भनस्य भावात् साध्यन्ते । ( २६४,२६५)
यद्यनुपलम्भेन निमित्तेन नैमित्तिकोऽसत् ज्ञानादिः साध्यते तदा निमित्ते
" सत्ताशानं । तदभिधानं । अस्ति में वेति सन्देहः ।