SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ अनुपलब्बिचिन्ता हेतु स्वभावनिवृत्त्यैवार्थनिवृत्तिवर्णनात् । सिद्धोदाहरणेत्युक्तानुपलब्धिः पृथग् न तु ॥२६०॥ त्रिविघाप्यनुपलब्धिव्विपक्षाद्धेतोः कारणस्य स्वभावस्य व्यापकस्य निवृत्त्यैवार्थस्य कार्यस्य व्याप्यस्य च निवृत्तेर्व्वर्णनात् सिद्धोदाहरणेति न पृथगुक्ता स्वभावानुप (ल) ब्धिः कारणव्यापकाभावसाधिका । तयोरनुपलब्धिस्तु कार्यव्याप्याभावसाधनीति त्रिविधानुपलम्भोदाहरणं सिद्धं । (२६०) उपलब्धिलक्षणप्राप्तविषयत्वमनुपलब्धेव्विशेषणं कथं सिद्धमिति चेदाह । तत्राप्यदृश्यात् पुरुषात् प्राणादेरनिवर्तनात् । 'सन्देहहेतुताख्यात्या दृश्येर्थे सेति सूचितम् ॥ २६१॥ प्राणादेर्हेतोरवृश्यात् पुरुषादात्म' नोऽनिवृत्तनिवृत्त्यसिद्धे जीवच्छरीरे सन्देहहेतुतया आख्यात्या कथनेन तत्रानुपलब्धावपि दृश्येऽर्थे याऽनुपलब्धिः सा भावसाधिका नान्येति सूचितमा चार्येण । यदि त्वनुपलब्धिरित्येव प्रमाणं तदात्मनि प्राणादेर्निवृत्तिः सिध्येत् । ततश्च जीवच्छरीरे वर्तमानमात्मानं गमयेदिति न सन्देहहेतुः स्यात् । (२६१) ननु यथा व्यवच्छेदविषयाऽनुपलब्धिः तथा कार्यस्वभावावपीति अनुपलब्धिरेवैको हेतुः स्यादित्याह । अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेनया । वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥२६२॥ ५०५ अनयानुपलब्ध्या न केवलम्वस्तुनि अवस्तुन्यपि निषेधः केवलो नाङ्गीकृतवस्त्वंशः कारणव्यापकानुपलब्धिभ्यां वस्तुव्यवच्छेदमात्रं अभावव्यवहारश्च साध्यते (1) यथा प्रदेशे धर्मिणि घटाभावः । पूर्व्वाभ्यां कार्यस्वभावाभ्यां त्वन्यव्यवच्छेदे नैकस्य विधानतः पर्युदासः साध्यते (1) यथाऽनग्निव्यवच्छेदेनाग्निः । नित्यव्यवच्छेदेनानित्यत्वं । (२६२) ननु स्वभावानुपलब्धौ कथं तादात्म्यं प्रतिबन्ध इत्याह । तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् । तत्रोपलभ्येषु भावेषु विचार्यमाणमस्तित्वमुपलब्धेरपरं न भवति । यदि ह्युपलब्धिः कर्मधर्मस्तदोपलभ्यमानतास्तित्वं । अथ कर्तुं धर्मो ज्ञानं । तदा १ अन्यत्रावृष्टरूपस्येत्यादिनात्मनोऽदृश्यस्याव्यतिरेकेण । ६४ 104a
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy