________________
प्र. वा. वृत्तौ० ( परिच्छेदः) Io3b भाको धूमः सामू! जायते। तदा बढेरेव शक्रमूर्दा। अथानम्निस्तथाऽदृश्य
मानत्वात् तथा सोपि म धूमो बास्यादिरेव आकारसाम्यात्तु धूमाभः। तस्मात्' कार्यकारणभावस्य नान्तरीयक तेति स्थितं ।। (२५७)
नान्तरीयकता ज्ञेया यथावं हेत्वपेक्षया ।
स्वभावस्य यथोक्तं प्राक् विनाशकृतकत्वयोः ॥२५८॥ स्वभावस्य च हेतोर्नान्तरीयकता साध्या अविनाभाविता ज्ञेया। यथास्वं यस्य स्वभावहेतोर्य आत्मीयस्तादात्म्यसाधको हेतुः साधनं तस्यापेक्षया। यथा प्रामुमतं विनाशकृतकत्वयो'स्तादात्म्यसाधनं अवश्यं हि कृतकानाम्बिनासः। न बासापेक्षाणामवश्यं भाकः। ततः स्वभावत एव कृतकानान्नश्वराणां विनाश प्रत्यनपेक्षित्वादिति दर्शितं। तदेव स्वभावकार्ययोरव्यभिचारित्वाद्धेतुत्वं । न च प्राणादेरात्मकार्यत्वं सिमिति कथं हेतुता। (२५८)
ख. प्राणादेरुक्तो दोष प्राचार्येण - नन्वयं प्राणादिमतो दोषकलाप आचार्ये णेष्ट इति कथं गम्यत इत्याह ।
हेतुत्वगतिन्यावः सर्वोय व्यतिरेकिणः।।
अम्यूह्यः श्रावणत्वोक्तेः कृतायाः साम्यदृष्टये ॥२५९॥ सर्वस्यासाधारणस्य दोषदुष्टत्वेन साम्यदृष्टये तुल्यतोपदर्शनाया चार्येण श्रावणत्वस्यासाधारणस्य योक्तिः कृता तस्या एवायं व्यतिरेकिणः प्राणादेरन्यस्य च हेतोरहेतुत्वगतिन्यायः सर्वोऽभ्यूह्यः। (२५९)
(७) अनुपलब्धिचिन्ता
(१) अनुपलब्धेः पृथगग्रहणे कारणम् मनु यथा स्वभावकार्यसिद्धयर्थ द्वौ हेतू उक्तौ तथाऽनुपलब्धिरपि वक्तुं युक्ता हेतुत्वात् । स्वभावानुपलब्धिस्तावत् तादात्म्यप्रतिबन्धात् स्वभावहेतोर्न भिद्यत इति स्वभाबहेतुनिर्देशादेव निर्दिष्टा। कारणव्यापकानुपलब्धिभ्याञ्च निषेध्यानुपलचिरेक प्रतिपाद्यत इति न तेपि स्वभावानुपलब्धेभिद्यन्ते। उदाहरणन्तर्हि कस्मात्रोक्तमित्याह।
'एवं तावत् कार्यस्य नियमः। २ नियमः।