________________
क. सामग्रीशक्तिभेदाद् विश्वरूपता
५०३
यदि नाम स्वस्वभावस्थितत्वाद् भावानां भेद एव पारमार्थिकः तथापि केचिद् भावा भिन्ना अपि स्वहेतुबलायातस्वरूपविशेषात् एककार्यकृत इति बुद्धेविकल्पिकायास्तद्रूपाया एकप्रत्यवमर्शाकाराया अभेदतः कारणात् द्रवताक्लेदहेतुरभिन्नेत्युच्यते। तदेकव्यावृत्तिविषयस्यावसायस्यानुरोधात् । एकत्वव्यवहारो न पारमार्थिक इत्यर्थः। (२५४)
तद्वद् भेदेपि दहनो दहनप्रत्ययाश्रयः।
येनांशेनादधद् धूमं तेनांशेन तथा गतिः ॥२५५॥ तद्वत् क्षीरोदकवत् । अवान्तरभेदे सत्यपि दहनो येनांशेन स्वभावेन स्वरूपोष्णस्पर्शाद्यात्मकेनानग्निव्यावृत्तेन दहन इति प्रत्ययस्य व्यवहारस्याश्रयो विषयस्तेन स्वभावेन धूममादधत् जनयत् धूमाश्रयो भवति (1) तेन धूमाश्रयत्वेन कारणेन धूमालिङ्गाद् दहनो हेतुः। तथाऽनग्निव्यावृत्तित्वेन गम्यते। (२५५) तथा हि (1)
दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्भवात् ।
धूमोतव्यभिचारीति तद्वत् कार्य तथापरम् ॥२५६॥ दहनप्रत्ययस्याङ्गानिमित्तादेवाग्निलक्षणादन्यापेक्षादा!न्धनादिसहायात् समुदर्भवादुत्पत्तेः कारणाद् धूमोऽतद्वयभिचारीति तद्वत् धूमवत्। अपरमपि' कार्य तथा स्वकारणाव्यभिचारि बोद्धव्यं । (२५६) किं पुनर्मूमो वह्नि न व्यभिचरतीत्याह।
धूमेन्धनविकाराङ्गतापदे दहनस्थितेः।
अनग्निश्चेदधूमोऽसौ सधूमश्चेत् स पावकः ॥२५७॥ धूमस्येन्धनविकारादेरङ्ग हेतुस्तस्य भावो धूमेन्धनविकाराङ्गता तस्याः पदे आश्रयवस्तुनि दहनस्थितेरग्निताव्यवहाराच्छक्रमूर्धाऽनग्नि मेन्धनविकारकारी न चेदिष्यते (1) ततो जायमानः पदार्थोसौ दृश्यमानोऽधूमो वाष्पादिरेव। न ह्यग्निजन्योऽनग्निर्भवति। सर्वथा साम्यात् सधूमश्चेदिष्यते तहि स वल्मीक: पावक एव धूमजनकस्यैव पावकत्वात्। देशकालस्वभावप्रतीतिनियमो हि भावानां नाकस्मिकः। तथात्वेऽतिप्रसङ्गात्। न च नानाहेतुकः प्रत्येकः व्यभिचारेऽहेतुत्वप्रसङ्गात् तस्मानियतहेतुकः। यदि चान्वयव्यतिरेकाभ्यामुपलब्धाग्निकारण
१ देशादिभिन्नं विजातीयव्यावृत्त्या त्वभिन्नं । २ एतदेव स्थिरयितुमाह।