________________
५०२
प्र० वा. वृत्तौ० (४ परिच्छेदः) __ अयं तस्याः शक्रमू दिसामनया जननं रूपं नास्तीति तदा तद् धूमाख्यं रूपं वह्निजन्यमस्याः कथं संभवेत् (1) न ह्यधूमहेतो॰मजन्म युक्तं (1) यतो धूमजनक एव वह्निर्वह्निजन्यश्च धूमः। (२५१)
ततः स्वभावौ नियतावन्योन्यं हेतुकार्ययोः।
तस्मात् स्वदृष्टाविव तद् दृष्ट कार्येपि गम्यते ॥२५२॥
ततो हेतुकार्ययोरग्निधूमाद्योः स्वभावो नियतौ अन्योन्यं तज्जनकत्वतद्भाroza वित्वाभ्यां (1) तस्मात् कारणकार्ययोनियमादव्यभिचारहेतोः यथा स्वस्य कार
णात्मने()वह्नः दृष्टौ तत्कारणत्वं गम्यते तद्वत् साक्षाद् दर्शनाभावे कार्येपि धूमे दृष्टे तत्कारणे परोक्षमनुमानबुद्धया गम्यते' साक्षात् परंपरया वा तदुत्पन्नेन ज्ञानेन प्रतीयमानस्य व्यभिचाराभावात् ॥ (२५२)
-~- एकं कथमनेकस्मात् क्लेदवद्दुग्धवारिणः।
(पर आह।) न यद्येकमेकस्मादेव भवति तदैकं कार्य कथमनेकस्माद् भवति (1) दाहरणमाह। ब्लेदबत् तण्डुलाद्यवयवशैथिल्यमिव दुग्धाद्वारिणश्च । अग्निसहकार दुग्धं वारि च स्वयं पृथक् तण्डुलादेविक्लित्ति जनयद् दृश्यते ॥
द्रवशक्तः यतः क्लेदः सा त्वकैव द्वयोरपि ॥२५३॥ (सिद्धान्ती). अयुक्तमेतत् । अन्यो हि दुग्धेन जनितः क्लेदोऽन्यश्च वारिणा। रसवीर्यपरिणामाकारभेदात्। तत् कथमेकस्मादनकोत्पादः ।
अथ सत्यप्यवान्तरभेदे विजातीयव्यावृत्त्या क्लेद एक उच्यते तदा दुग्धवारि, गोयंतो यस्या द्रव्यजनिकायाः शक्तेः क्लेदो जायते सा शक्तिस्तु द्वयोरपि विजातीयव्यावृत्तरेकव। तत् क थमनेकस्मादेकोत्पत्तिः॥ (२५३)
भिन्नाभिन्नः किमस्यात्मा भिन्नोथ द्रवता कथम् ।
अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः ॥२५४॥ (परः) यदि दुग्धस्य क्लेदजननशक्त्यात्मतया वारिणा सहाभेद इष्यते तदा भिन्नाभिन्नोऽस्यात्मा किमभ्युपगन्तव्यः। शक्त्यात्मतयाऽभेदात्। आकारभेदाच्च भेदात्। उत्तरमाह (1) -न भिन्नाभिन्न आत्मा किन्तु भित्र एव। कथन्तहि द्वयोरपि अवताऽभिन्ना क्लेदहेतुरित्युच्यते द्रवत्वस्याभेदात् । अभेदोक्तिर्भेदोक्त्या विरुध्यते।
' इत्यव्यभिचारिकार्यलिङ्गम्।