________________
क. सामग्रीशक्तिभेदान् विश्वरूपा
५०१
कार्यस्वभावभेदानां यथा स्वं कारणेभ्यः समुद्भवात् कारणात् केवलादन्वयात् कार्यकारणभावेपि कार्यभावाङ्गीकारात् से कार भवतः कार्यस्य रूपं तज्जं कथं भवेत् । न हि बह्निनं युक्तं प्रत्येकं व्यभिचारादे'र्हेतुत्वप्रसङ्गात् ।। (२४८)
सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता । सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत् ॥२४९॥
सामग्रीणां शक्तिभेदाद्धि वस्तूनां कार्याणां विश्वरूपता नानात्मता । सामग्री चेत् स्वभेदेन कार्याणां न भेदिका । जगदिदमेकरूपं प्राप्तं । (२४९)
ननु कारणानि कार्यमात्राणि जनयन्ति । न तेषां परस्परतो भेदमपि ततो धूमः पावकादिव शक्रमूर्ध्नापि जायेत । इत्याह ।
भेदकाभेदकत्वे स्याद् व्याहता भिन्नरूपता । एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ ॥ २५० ॥
अस्याः सामग्रचा भेदकत्वे भिन्नत्वे भिन्नसामग्री कार्यविल क्षणकार्यजनकत्वेऽभेदकत्वे च सामग्रयन्तरकार्यजनकत्वेऽभ्युपगम्यमाने एकस्याः सामग्रचा भिक्षरूपता नानात्माऽभ्युपगता स्यात् । सा च व्याहृता । तथा हि घूमाग्न्यादिसामग्री सामग्रयन्तरकार्यविलक्षणं जनयन्ती तस्य भेदिका प्रतीता। यदि च सामग्रयन्तरकार्यं च सा जनयेत् तदाऽभेदिका च स्यात् । तथा चैकस्य शक्रमूर्ध्ना नाना रूपत्वे द्वे रूपे पावकेतरौ स्यातां । धूमजनकत्वाद् वह्नित्वं विलक्षणरूपत्वाच्चावह्निरूपत्वं । न चैतें एकस्य युक्ते रूपभेदलक्षणत्वाद् वस्तुभेदस्य । ( २५० )
तत् तस्या जननं रूपमन्यस्य यदि सैव सा ।
तत् तस्मात् तस्याः शक्रमूर्द्धादिसामग्रया जननं घूमोत्पादकं रूपं यदि विद्यते तदा सैव दहनात्मकैव सा शक्रमूर्द्धादिसामग्री । अग्निधूमयोरन्वयव्यतिरेकदर्शनात् स एवाग्निर्यो' धूमजनकः । स एव धूमो योऽग्निजन्य इति निश्चितत्वात् । न तस्या जननं रूपं तत् तस्याः संभवेत् कथम् ॥२५१ ॥
' अन्वयमात्रात् परो मन्यते तन्निषेधति । ★ आकस्मिकानुपपत्तेः । अग्नितोप्यग्निधूमादि । अग्निस्वभावशक्रमूर्ध्वोपि घूमादिति व्यभिचार इत्यन्यत उत्पावेऽहेतुत्वं नास्ति । अग्न्यादिविलक्षणसामप्रधाश्च भेवकमभेदकञ्च रूपमस्ति येन धूमञ्जनयति तदभेदकं ।
8 जनयन्ति ।
* इति नास्त्येव व्यभिचार इत्याशयः जबहरमुत्पत्तेः ।