________________
५००
प्र० वा० वृत्तौ० (४ परिच्छेदः)
कस्य वलयादेः प्रवृत्तिषु विधिषु सिद्धः । स एव निवर्त्तमानः तस्यानुविहितान्वयव्यतिरेकस्य निवर्त्तकः । अतः प्रवृत्तिविषयत्वात् प्रवृत्तौ स्वसत्तायाञ्च तस्यावश्यं प्रवृत्तेः कर्त्ता हेतुर्भवति । यथा घूमो दहननान्तरीयकतया सिद्धो दहननिवृत्तिप्रवृत्तिभ्यां निवर्त्तते प्रवर्त्तते च ( । २४५ ).
नान्तरीयकता सा च साधनं समपेक्षते । कार्ये दृष्टिरदृष्टिश्च कार्यकारणता हिता || २४६॥
सा च नान्तरीयकता साधनं निश्चायकं मानमपेक्षते गमकत्वहेत्वधिकारेऽनिश्चितगमकत्वनिबन्धस्याहेतुत्वात् । साधनञ्च कार्ये कारणान्वयवत दृष्टिro2b स्तद्वयतिरेकवति चावृष्टिः । न तु सपक्षविपक्षयोर्दर्शनादर्शनमात्रकं । हि यस्मात् तत्कार्यदृष्टयदृष्टी कार्यकारणता कारणभावाभावप्रयुक्ते कार्यभावाभावदर्शने कार्यकारणतोक्ता (1) अन्यनिश्चयोपायतादर्शनार्थं । ( २४६)
ततश्च (1) 1
अर्थान्तरस्य तद्भावेऽभावानियमतोऽगतिः ।
अकारणस्यार्थान्तरस्यात्मनस्तस्य
प्राणादेर्भाविऽभावानियमतोऽवश्यम्भावा
भावात् अगतिरप्रतीतिः ।
नन्वात्मा'न्वयव्यतिरेकानुविधानात् प्राणादय आत्मानं तत्कार्यतयानुमापयिष्यन्तीत्याह ।
अभावासम्भवात् तेषामभावे नित्यभाविनः ॥२४७॥
तस्यात्मनो नित्यभाविनः सर्व्वकालस्थायिनः कदाचिदभावे सति तेषां प्राणादीनामभावस्यासम्भवात् ( 1 ) यदि व्यतिरेकमन्तरेणान्वयमात्रादात्मकार्यता प्राणादीनां तदा कालाकालादिकार्यतापि स्यात् ( 1 ) या यस्य समानत्वात् ( 1 ) aare तानप्यनुमापयेयुः कालादिनिवृत्तिश्च प्राणादिनिवृत्त्या व्याप्येत । ततो यत्र प्राणादिनिवृत्तिरस्ति तत्र कालादिनिवृत्तिरपि स्यात् । एवं व्याप्यसद्भावात् । न च कालरहितः कश्चिदस्ति । ( २४७ )
(६) क. सामग्रीशक्तिभेदाद् विश्वरूपता
किञ्च (1)
कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात् ।
तैर्विना भवतोन्यस्मात् तज्जं रूपं कथं भवेत् ॥ २४८॥
•