________________
साध्याभावस्य साधनाभावेन न व्याप्तता
४९७
कल्पितधर्मभेदविधिनिषेधयोर्गोचरैव्विकल्पैर्यथाक्रमं धर्मिधर्माणां नीतः प्रापितः सञ्चयोऽपचयश्च यैस्तैरिव यथाध्यवसायं । ( २३५ )
वस्तुत: ( 1 )
तद्वानपिसम्बन्धात् कुतश्चिदुपनीयते ।
दृष्टि भेदाश्रयैस्तेपि तस्मादज्ञातविप्लवाः ॥२३६॥
भेदाश्रयैर्व्यावृत्तिविषयैरतद्वान् धर्मभेदेन तत्सञ्चयापचयाभ्यां रहितोपि शब्दादिदृष्टि प्रतीतव्यवहारमुपनीयते । विकल्पास्तावद् वासनावशात् तथोपदर्शयन्ति । व्यवहर्त्तारस्तु क ैस्माद् विमृश्य न निवर्त्तन्त इत्याह । अर्थे तेषां व्यावृत्त्याश्रयेण कल्पितधर्माणां कुतश्चित् सम्बन्धात् तदर्थक्रियाप्राप्तेः परितोषादर्थक्रियार्थिनां व्यवहारिणां धर्मभेदाद् यथार्थत्वेन विमर्शादादर इति ते व्यवहर्त्तारोप्यज्ञातविप्लवा धर्मभेदविधिप्रतिषेधव्यवहारस्येति यथार्थमेव तत् मन्यन्त इति । तस्मात् परमार्थतोऽसत्येव धर्मिणि विधिप्रतिषेधव्यवहारात् असतोपि सपक्षाद् विपक्षाद् वा तुनिवृत्तिः सन्दिग्धा । ( २३६)
किञ्च (1) प्राणादे: सपक्षो नास्तीति ततो न व्यतिरेक इति यद्युच्यते तदसङ्गतमित्याह ।
सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः । 'असत्वञ्चाभ्युपगमादप्रमाणन्न युज्यते ॥२३७॥
आत्मनः सत्तायां साधनस्य प्राणादेर्वृत्तेः कारणात् वादिप्रतिवादिनोरात्मा सन्दिग्धः स्यात् । न ह्यसत्तया निश्चितेऽर्थे कश्चित् साधनमाह । प्रतिवादी च तत्साधनं शृण्वन् कथमसन्दिग्धो नाम । आत्मसन्देहाच्च सपक्षो नासन् तत् कथमुच्यते सपक्षासत्वात् न ततो व्यावृत्त इति व्यतिरेकी प्राणादिः । स्यादेतत् (1) प्रतिवादिनः सात्मत्वेन कस्याश्चिदनिष्टेः सपक्षाभाव उच्यते ।
ननु पराभ्युपगमप्रमाणमप्रमाणम्वा । प्रमाणञ्चेन्नैरात्म्यमेव तर्हि सिद्धं । ) अलमात्मसाधनोपन्यासप्रयासेन (1) अथाप्रमाणं (1) परस्याभ्युपगमात् अप्रमाणकात् सपक्षसत्वं च न युज्यते । ( २३७) तस्माद् (1)
असतो व्यतिरेकेपि सपक्षाद् विनिवर्त्तनम् ।
सन्दिग्धं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम् ||२३८॥
असतः सपक्षाद्धेतोर्व्यतिरेकेप्युपगम्यमाने प्राणादेः सपक्षाद् विनिवर्त्तनं सन्दिग्धं तस्य सपक्षसन्देहात् । यदि सपक्षाभावेाऽसन्दिग्ध एवं हेतुव्यावृत्तिभावो' प्यसन्दिग्धः
१ विपक्षात् । ६३