________________
1
४९८
प्र० वा० वृत्तौ० (४ परिच्छेदः)
स्वात् । तत्सन्देहे तस्यापि सन्देहः । सपक्षाद् व्यावृत्तिसन्देहे विपक्षाद् विनिवर्तनं प्राणादेः सन्दिग्धं । (२३८)
कथमित्याह (1)
एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् । द्वैराश्ये सति दृष्टेषु स्याददृष्टेपि संशयः ॥ २३९ ॥
एकत्र सपक्षे सत्त्वस्य नियमे सिद्धे सति अन्यतो विपक्षानिवर्त्तनं सिध्यति । यो हि पक्ष एव भवति स नियमाद् विपक्षे न भवति । यदि तु विपक्षेपि स्यात् सपक्षे सत्ता नियमो व्याहन्येत ।
ननु सात्मकत्वानात्मकत्वाभ्यां द्वैराश्यं भावानां । तत्र निरात्मकेषु घटादिषु दृष्टः प्राणादिरर्थात् सात्मकेषु व्यवतिष्ठत इति प्राणादेरतो युक्तं सात्मकत्वानुमानमित्याह । द्वैराश्ये सति भावानां घटादिषु निरात्मकेषु दृष्टेषु बहुलं प्राणादाव वृष्टेप' देशादिविप्रकृष्टेषु प्राणादिसत्तासंशयः कदाचित् क्वचिन्निरात्मका अपि प्राणादियुक्ताः स्युः बाघकाभावात् । ( २३९) तथाहि ।
अव्यक्तिव्यापिनोप्यर्थाः सन्ति तज्जातिभाविनः । कचिन नियमोदृष्ट्या पार्थिवालोहलेख्यवत् ॥२४०॥ तस्यामेकस्यां जातौ सम्भविनोप्यर्था धर्मा अव्यक्तिव्यापिनो निःशेषतद्वयक्त्यसम्भविनः सन्ति : ततः क्वचिद् घटादौ निरात्मके प्राणादिनस्तीत्यदृष्टचादर्शन• समस्तेषु निरात्मकेषु न प्राणाद्यभावस्य नियमः । बहुषु पार्थिवेषु काष्ठपाषाणादिषु लो हलेख्यत्वदर्शनेपि पार्थिव एव वच्चेऽलोहलेख्यत्वदर्शनेपि पार्थिव एव वज्र ऽलोहलेल्यत्ववत् । अलोहलेख्यस्येव नासम्भवस्य नियमः । ( २४० ) भावे विरोधस्यादृष्टः कः सन्देहं निवारयेत् ।
निरात्मकत्वेन सह प्राणादेव्विरोषस्यावृष्टेनिरात्मकेष्वपि भावेषु प्राणादेर्भावे सत्तायां कः सन्देहं निवारयेत् । न हि प्राणादेर्नैरात्म्येन सहानवस्थानलक्षणो विरोध: ( 1 ) क्वचिन्निवर्त्यनिवर्त्तकभावानुपलब्धेः नाप्यन्योन्यपरिहारस्थितिलक्षणः परस्परव्यवच्छेदात्मकत्वाभावात् ।
· स्यादेतत् (1) नैरात्म्यविरुद्धेनात्मना व्याप्तत्वात् प्राणादेः परम्परया नैरात्म्येन विरोध इत्याह ।
कचिद् विनियमात् कोन्यस्तत्कार्यात्मतया स च ॥ २४१॥
" लोहलेख्यं वज्रं पार्थिवत्वात् काष्ठवत् ।