________________
साध्याभावस्य साधनाभावेन न व्याप्तता
४९३
असाध्याद् विपक्षादेव साधनस्य विच्छेदो व्यावृत्तिरित्यभिधानेनार्थापत्त्यसामर्थ्येन साध्ये सपक्षेऽस्तितोच्यते। यदि तु ' सपक्षादपि व्यावृत्तिस्तदा विपक्षादेव व्यावृत्तिरित्यसङ्गतं । यतो विपक्षादेव व्यावृत्तिरिति व्यतिरेक आक्षिप्तान्वय एव भवति। अत एवा चार्येण एकेन व्यतिरेकेणान्वयेन वा नियमवता दृष्टेनोभयदर्शनमुक्तं । अर्थापत्त्याऽन्यतरेणोभयदर्शनादिति। (२२०) यस्मादैकान्तिको व्यतिरेक आक्षिप्तान्वय एव भवति। अतः (1)
ईदृगव्यभिचारोतोऽनन्वयिषु न सिध्यति ।
प्रतिषेधनिषेधश्च विधानात् कीदृशोऽपरः ॥२२१॥ ईदृग् विपक्षे व्यतिरेको (5)व्यभिचारः अनन्वयिषु हेतुषु न सिध्यति। य एव साध्येनान्वितो हेतुस्तस्यैव विपक्षादेव व्यतिरेकः। यदि तु सत्यपि साध्ये हेत्वभावस्तदा सपक्षादपि व्यतिरेकात् कथं विपक्षादेव निवृत्तिः। किञ्च (1) प्राणादेः सपक्षे प्रतिषेधस्य निवृत्ते निषेधो विधानादपरः कीदृशः। प्रतिषेधनिषेधो हि विधिरेव परस्परपरिहारेणावस्थितेः। ततः प्राणादेः सपक्षानिवृत्तिर्नास्तीत्यर्थाद् वृत्तिरेवोक्ता स्यादिति न व्यतिरेकित्वं । (२२१) स्यादेवं यदि सपक्षो भवति । किन्तु (1)
निवृत्ति सतः साध्यादसाध्येष्वेव नो ततः।
नेति सैव निवृत्तिः किं निवृत्तेरसतो मता ॥२२२॥ सात्मकत्वे साध्ये सपक्षो नास्तीत्यसतः साध्यात् सपक्षात् प्राणादेनिवृत्तिर्नास्ति ततोऽसाध्येषु विपक्षेष्वेव नो वृत्तिरिति व्यतिरेकित्वमिष्टं। एवन्तर्हि सपक्षादसतो हेतोनिवृत्तनिवृत्तिरस्माकं अस्तित्वेन येष्टा सैव किन्ने ति भवतो मता। यदि ह्यसन निवृत्तेर्नाधिकरणं तदा निवृत्तिनिवृत्तेः कथं भविष्यति। (२२२) किञ्च (1)
निवृत्त्यभावस्तु विधिप्रस्तुभावोऽसतोपि सन् ।
वस्त्वभावस्तु नास्तीति पश्य बान्थ्यविजृम्भितम् ॥२२३॥ असतोपि सपक्षाद्धेतुनिवृत्तेर्नीरूपाया अभावस्तु विधिर्वस्तुभावो हेतुसम्भवः स नेष्यते (1) यद्यसति सपक्षे हेतुनिवृत्तिर्नास्ति तदा हेतुरेवास्तीत्युक्तं स्यात्।
१ प्रतिषेधव्याख्या (1) प्राणादेः सपक्षेऽभावो नास्तीति।
कस्मात्।