________________
४९४ - प्र० वा. वृत्तौ० (४ परिच्छेदः) वस्तुनो हेतोरभावस्तु निवृत्तिशब्दवाच्यो नास्तीति पश्य बान्ध्यविजृम्भितं परेषां। असत्यसत्त्वमविरुद्धं । विरुद्धन्तु सत्त्वमित्यर्थः । (२२३) अपि च (1)
निवृत्तिर्यदि तस्मिन्न हेतोवृत्तिः किमिष्यते । ___सापि न प्रतिषेधोयं निवृत्तिः किं निषिध्यते ॥२२४॥ हेतोस्तस्मिन्नसति सपक्षे निवृत्तिर्यवि नास्ति तदा किं वृत्तिरिष्यते विधिनिषेधयोरन्योन्यव्यवच्छेदात्मत्वादेकप्रतिषेधस्य तदपरविधिनान्तरीयकत्वात् । ततश्चान्वयव्यतिरेकित्वात् प्राणादिनं व्यतिरेकी। सा वृत्तिरपि नासति सपक्ष इति चेत्। ननु वृत्तिनिषेधः प्रतिषेधोयं निवृत्त्यात्मकः। ततश्चासतो वृत्तिनिवृत्तेरधिकरणत्वात्। तस्मिन्निवृत्तिः किं निषिध्यते। सत्याञ्च निवृत्तौ श्रावणत्ववदसाधारणं प्राणादि स्यात्। (२२४)
म. शाब्दो व्यवहारो विधिप्रतिषेधप्रयोजनः _अयाधिकरणतयापादानतया वा सतः प्रतीतिर्नास्तीति न तस्मान्निवृत्तिरित्युच्यते। एतदर्थ हि (1)
विधानं प्रतिषेधश्च मुक्त्वा शाब्दोस्ति नापरः।
व्यवहारः स चासत्सु नेति प्राप्तात्र मूकता ॥२२५॥ विधान प्रतिषेधञ्च मुक्त्वाऽपरः श(r)ब्दो व्यवहारो नास्ति तयोरेव शब्दप्रतिपाद्यत्वात्। स च विधिप्रतिषेधव्यवहारोऽसत्सु नास्तीति। अत्रासत्सु मूकतैव प्राप्ता। तथा ह्यसति विधिव्यवहारस्तावन्नास्त्येव । प्रतिषेधोपि त्वन्मते नास्तीति युक्तं मूकत्वं । (२२५) किञ्च (1)
सताश्च न निषेधोऽस्ति सोऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नबर्थः प्रलयं गतः ॥२२६॥ सताञ्च पदार्थानां न निषेधोस्ति विद्यमानत्वात्। स प्रतिषेधोऽसत्सु न त्वदभिप्रायाद् विद्यते। अनेन न्यायन नोर्थः प्रतिषेधो जगति विषये प्रलयं
rora गतः। (२२६)
देशकालनिषेधश्चेद् यथास्ति स निषिध्यते।
न तथा न यथा सोस्ति तथापि न निषिध्यते.॥२२७॥ क्वचित् सतामेवार्थानामन्ययोर्वेशकालयोनजादिना निषेध इष्टश्चेत् । यथा