________________
प्र० वा० वृत्तो० (४ परिच्छेदः)
अन्योन्यप्रत्ययापेक्षा यस्या य आत्मीयः प्रत्यय: सहकारिकारणं इन्द्रियादि तस्मिन्नपेक्षायत्तिर्यासां तास्तथा सत्यः स्वजातिसमुद्भवाः समनन्तरप्रभवा न तु परंपरयाप्यात्मापेक्षिण्य इत्यर्थः । एतावति कारणकलापेऽयमात्मभावः षडायतनं गृहीतोऽन्वयव्यतिरेकभाक् प्रतिबद्धः कारणत्वेन ततोन्यस्य' कल्पनेऽमवस्था कारणा-: नां । तस्मान्नादृष्टसामर्थ्यस्यात्मनो निवृत्तौ प्राणा' दिनिवृत्तिर्युक्ता ॥ ( २१६,२१७)
४९२
किञ्च (1)
श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारतः ।
न तस्य व्यभिचारित्वाद् व्यतिरेकेपि चेत् कथम् ॥२१८॥
तत् प्राणादिसाधनं श्रावणत्वेन हेतुना व्यभिचारतोऽनैकान्तिकत्वात्* तुल्यं । नैतदस्ति । तस्य श्रावणत्वस्य विपक्षाद् बहुलं व्यतिरेकेपि व्यतिरेकस्य व्यभिचारतः। न हि श्राव (ण) त्वमनित्येभ्यः प्रायो व्यावृत्तमित्यनित्यत्वव्यतिरेकाव्यभिचारि वाक्यमवसातुं । " पक्ष एवानित्येन सहाकार्यंविरोधात् । प्राणादि तु नियमेन विपाकस्यतिरेकाव्यभिचारीति न युक्तं श्रावणत्वेन तुल्यमिति चेत् । पृच्छत्याचा र्थः । प्राणादिश्रावणत्वेनातुल्यं कथमिति । (२१८)
इतर आइ ।
नासायादेव विश्लेषस्तस्य नन्वेवमुच्यते । साध्येनुवृत्यभावोर्थात् तस्यान्यत्राप्यसौ समः ॥ २१९ ॥
तस्य श्रावणत्वस्यासाध्याद् विपक्षादेव न विश्लेषो व्यावृत्तिः किन्तु सपक्षादपि । प्राणादेस्तु सर्व्वस्य जीवच्छरीरस्य सात्मत्वेन साध्यत्वात् (1) सपक्ष एव नास्तीति
मन्ततो व्यावृत्तिरिति (1) अत्राह । नन्वेवमसाध्यावेब श्रावणत्वस्य न विश्लेष roob इत्याख्याने साध्ये साध्यवति सपक्षेऽनुवृत्तेरन्वयस्याभावोऽर्थादुक्तः स्यात् । यो हि विपक्षमात्रादव्यावृत्तः स सपक्षादपि व्यावृत्तेरन्वयरहित उक्तो भवति । तथा च प्राणादेरसौ सपक्षानुवृत्त्यभावः समः । न हि प्राणादिसपक्षे क्वचित् सिद्धं । सर्व्वस्य जीवच्छरीरस्य पक्षत्वात् । ( २१९ )
असाध्यादेव विच्छेद इति साध्यस्तितोच्यते । अर्थापत्यात एवोक्तमेकेनोभयदर्शनम् ॥२२०||
३ परः ।
१ आत्मादेः ।
उभयत्र व्यतिरेकव्यभिचारस्य तुल्यत्वात् ।
यद्यपि कुरुधादेरनित्याद् व्यावृतः सपनाकाशात् तथापि व्यभिचारो
इच्छाविशब्देऽनित्यत्वादिति ।