________________
४९०
प्र० वा० वृतौ० (४ परिच्छेदः)
अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुतः । 'श्रज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुतः ॥ २११॥
आत्मनोन्यत्र जीवच्छरीरेऽवृष्टरूपस्य घटादौ न सत्त्वमिति यदुच्यते तत्कुतः सिद्धं । दृश्यानुपलब्ध्या ह्यभावसिद्धिः । न चादृष्टचरे तत्सम्भवः । अज्ञातो व्यतिरेको भावो यस्य तस्यात्मनो या व्यावृत्तिर्घटादौ तस्याः प्राणादिनिवृत्त्या व्यापिता व्यापनं कुतः सम्भवि । येन जीवच्छरीरे प्राणादिनिवृत्त्यभावात् सात्मकवनिवृत्त्यभावे सत्यात्मसिद्धिः स्यात् ॥ (२११)
ननु यथा घटादौ प्राणा' द्यभावनिश्चयस्तथात्माभावनिश्चयोपि किं न भवतीत्याह ।
प्राणादेश्च क्वचिद् दृष्टया सत्त्वासत्त्वं प्रतीयते । तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते ॥ २१२ ॥
प्राणादेः क्वचिज्जीवच्छरीरे वृष्टया सत्त्वं प्रतीयते । मृतदेहे चोपलब्धिलक्षणतस्यास्यादृष्ट्या सत्त्वं प्रतीयते । तथा यदि क्वचिद् देहे आत्मा दृश्येत तदा स्वमस्य प्रतीयेत । अन्यत्रोपलभ्यस्वरूपस्यास्यानुपलब्धेरसत्त्वं प्रतीयेत । न आत्मोपलब्बिरस्ति क्वचिदिति न तदभावनिश्चयः । (२१२)
• यदप्युच्यते (1) यदि न सात्मकं जीवच्छरीरं तदास्य प्राणादिविरहप्रसङ्गो नरात्म्याद घटवदिति प्रसङ्गसाधनं । तच्चायुक्तं दर्शयितुमाह ।
यस्य हेतोरभावेन घटे प्राणो न दृश्यते ।
देहेपि यद्यसौ न स्याद् युक्तो देहे न सम्भवः ॥२१३॥
यस्य बुद्धिदेहातिशयप्रयत्नादेर्हेतोरभावेन घटे प्राणो न दृश्यते (1) देहेपि यद्यसौ बुद्धिदेहातिशयप्रयत्नादिनं स्यात् ( 1 ) तदा देहेपि हेतुविरहात् प्राणादेर्न 1002 संभवो युक्तो यथा मृतशरीरे । जीवद्देहे तु बुद्ध्यादिसद्भावादेव' प्राणादिरुचित
संभव इति नात्माभावे तदभावप्रसङ्गः सङ्गतः । (२१३)
अथ घटजीवच्छरीरादीनां नैरात्म्येन यथा साघम्यं तथा प्राणादिरहिततयापि स्यात् । न च भवति (1) तस्मान्निरात्मके घटादौ प्राणादिरदृष्टो यत्र वर्त्तते तत्र सात्मकत्वं साधयतीत्याह ।
भिन्नपि किचित् साधर्म्याद् यदि तत्त्वं प्रतीयते । प्रमेयत्वाद् घटादीनां सात्मत्वं किन्न मीयते ॥ २१४॥
शाश्वत आत्मा तद्विपरीताः प्राणादय इति न तादात्म्यं ।