________________
साध्याभावस्य साधनामावेन न व्याप्तता ४८९ (५) साध्याभावस्य साधनाभावेन न व्याप्तता
क, जीवच्छरीरं प्राणादिमत्त्वादित्यत्र दोषः ननु साध्यनिवृत्तौ' नियमेन साधनं निवर्तत इति साध्याभावः साधनाभावेन व्याप्तः। ततश्च (1)
प्राणायभावो नैरात्म्यव्यापीति विनिवने।
आत्मनो विनिवर्तेत प्राणादिर्यदि वचन ॥२०॥ प्राणायः साधनस्याभावो नैरात्म्यस्य सात्मकत्वसाध्याभावस्य व्यापीति हेतोरात्मनो घटादेविपक्षाद् विनिवर्त्तने सति प्राणादिग्विनिवर्तते। न हन्यथा साधनाभावः साध्याभावस्य च व्यापको भवति । ततो यत्र प्राणादिभावनिवृत्तिस्तत्र सात्मकत्वभावनिवृत्तिरपीति यधुच्यते तच्च न युक्तं । (२०८) ___ अन्यस्य विनिवृत्यान्यविनिवृत्तेरयोगतः । तदात्मा तत्प्रसूतिश्चेन्नैतत्
. अन्यस्य कारणस्यात्मनो विनिवृत्त्या प्राणादेधिनिवृत्तेरयोगतः। तादात्म्यतदुत्पत्तावेव हि साध्यनिवृत्तौ साधननिवृत्तिर्युक्ता तत्स्वभावत्वात् तदायत्तत्वाच्च । सति च साध्यसाधनयोनियमेन निवर्त्यनिवर्तकभावे साध्याभावः साधनाभावेन व्याप्यते। प्राणादिस्तस्यात्मन आत्मा स्वभावः। तस्मात् प्रसूतिवस्थिति चेत् । नैतवस्ति युक्तं । तथा हि (i) ,
आत्मोपलम्भने ॥२०९॥ . तस्योपलब्धावगतावगतौ च प्रसिध्यति।।
ते पात्यन्तपरोक्षस्य दृष्टयदृष्टी न सिध्यतः ॥२१॥ आत्मन उपलम्भने सति तस्य प्राणादेपलब्धौ सत्यामात्मनोऽगती प्राणादेरगतौ च सत्यां कार्यकारणभावः प्रसिध्यति। ते च दृष्टयदृष्टी कार्यकारणभावसाधनेऽत्यन्तप्रोक्षस्यात्मनो न सिध्यतः। अत्यन्तपरोक्षस्य कथमदृष्टिरपि न सिध्यतीति चेत्। अभावसाधिका दृश्यानुपलब्धिर्न सिध्यत्येव । अदृष्टिमात्रन्तु नाभावसाधकं । ततः प्रागादेरात्मना सह प्रतिबन्धासिद्धेत्मिनिवृत्त्या प्राणादिनिवृत्तिसिद्धिः । (२०९, २१०)
किञ्च (1)
'तादात्म्यनिवृत्ति। न चेष्टं परस्य केवलमेतावानेव प्रतिबन्धे इत्युपन्यासः।