________________
४८८ प्र० वा. वृत्तौ० (४ परिच्छेदः)
(४) विवादाद् भेदसामान्य इत्यस्य व्याख्यानम् विवादाद् भेदसामान्य इति व्याख्यात व्यं ।
स्यात् प्राणादिमत्वं हेतुर्यदि विपक्षाखेतुव्यतिरेकः स्यात् (1) स एव तु न सिध्यतीत्याह।
ऐकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते ।
तच नाप्रतिबद्धषु तत एवान्वयस्थितिः ॥२०५॥ - विपक्षाभेदो व्यावृत्तेब्बधिकप्रमाणनिश्चितत्वात्। ऐकान्तिकत्वमविनाभाव उच्यते (1) तच्च व्यावृत्तेरैकान्तिकत्वं स्वसाध्याप्रतिबद्धषु प्राणादिषु नास्ति। यदि ह्यात्मनि प्रतिबद्धाः प्राणादयः तदात्मनिवृत्तौ निवृत्ता विपक्षाद् गम्येरन् (1)
अन्यथा तु पक्ष एव सन्देहः (1) किममी आत्माभावेपि वर्तन्ते उत नेति (1) । यथा च प्रतिबन्धाद् व्यतिरेकनिश्चयः । तथा ततः प्रतिबन्धादेवान्वयस्य स्थितिः ।
न तु सहदर्शनमात्रेण। (२०५) - तस्मात् साध्यस्य (1)
खात्मत्वे हेतुभावे वा सिद्ध हि व्यतिरेकिता।
सिध्येदतो विशेषे न व्यतिरेको न चान्वयः ॥२०६॥ स्वात्मत्वे हेतुस्वभावात्मकत्वे हेतुभावे वा सिद्धे सति (तदभावे नियमेन व्यतिरेकात्) विपक्षाद् व्यापककारणव्यतिरेके स्वभावकार्यहेत्वोर्व्यतिरेकिता सिध्येत् । नान्यथेति न्याय एषः। यतः प्रतिबन्धेनैवान्वयव्यतिरेकसिद्धिः। अतो विशेषेऽसाधारणे हेतौ नान्वयो न वा' व्यतिरेकः सिध्यति ॥(२०६) । एवं तहिं सपक्षविपक्षव्यतिरेकाभ्यां व्यावृत्तेविशेषः कथ मा चार्ये णोक्तः इत्याह।
अदृष्टिमात्रमादाय केवलं व्यतिरेकिता। _ उताऽनैकान्तिकस्तस्मादन्यथा गमको भवेत् ॥२०७॥ - अदृष्टिमात्रं बाधकप्रमाणरहितमादाय पराभिप्रायेण सपक्षाद् व्यतिरेकितोक्ता । तस्यादर्शनमात्रेण व्यतिरेकानिश्चयावनैकान्तिक आचार्येणोक्तः। अन्यथा विपक्षाद् व्यतिरेकनिश्चये गमको हेतुर्भवेत्। ततश्चानैकान्तिकवर्गे न प्रक्षिप्येत ।(२०७)