________________
कार्यास्वभावहेत्वोनिर्देशस्य फलम्
४८७ स्वभावतया सदृशस्य प्रयत्नानन्तरीयकत्वस्योदाहृतिरा चार्येण कृता। प्रयत्नाद् व्यक्तेर्जन्मनश्च भावात्। यदा प्रयत्नाद् व्यक्तिस्तदा कार्यहेतुः। यदा जन्म तदा स्वभावहेतुः।(२०१) कार्यस्वभावयोः प्रभेदनिर्देशस्य किं फलमित्याह।
यनान्तरीयका सत्ता यो वात्मन्यविभागवान् ।
स तेनाव्यभिचारी स्यादित्यर्थं तत्प्रभेदनम् ॥२०२॥ यन्नान्तरीयका सत्ता भेदे सति यमन्तरेण हेतु न भवति । यो वा स्व आत्मीयः ४साध्यादविभागवान् (।) ५ आत्मा स्वभावः स तेन कारणेन व्यापकेन वाऽव्यभिचारी व्यभिचाररहितः स्यात् नान्य इत्यर्थमेतत् प्रयोजनं (1) तयोः कार्यस्वभावयोः प्रभेदनं ।(२०२) . एवञ्च सति (1)
संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः।
न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥२०३।। संयोगि समवायि एकार्थसमवायि आकाशादिषु पराभिमतेषु हेतुषु येषु प्रतिबन्धः तादृशस्तादात्म्यतदुत्पत्तिलक्षणो नास्ति (1) न ते हेतव इत्युक्तं भवति । अतदात्मनोऽतदुत्पत्तेश्च साध्यव्यभिचारस्य सम्भवात् । (२०३) अथ संयोग्यादिषु तदुत्पत्तिप्रतिबन्धोस्ति तदा (1)
सति वा प्रतिबन्धेस्तु स एव गतिसाधनः । नियमो ह्यविनाभावोऽनियतश्च न साधनम् ॥२०४॥ सति प्रतिबन्धे स एव गतिसाधनः साध्यप्रतिपत्तिहेतुरस्तु निष्फला संयोग्यादिकल्पना (1) नियमो नियतत्वं हि साधनस्य साक्षादविनाभाव उच्यते (1) स च तादात्म्यतदुत्पत्तिभ्यां नान्यथा (1) स च तद्विकलत्वात् साध्येऽनियतः। न स साधनं । यथा संयोगित्वेपि स वह्नि मस्येति "स्वभावकार्यसिद्ध्यर्थं द्वौ द्वौ हेतुविपर्ययावि"ति व्याख्यातं । (२०४)
१ उपलब्धेः कार्यत्वं ज्ञानत्वात् । उत्पत्तेः स्वभावत्वं शब्दरूपत्वात् ज्ञानस्य । ' शब्दस्य। कार्यहेतुः। स्वभावः। ' हेत्वन्तरानपेक्षत्वार्थ। ६ वैशेषिकादिकल्पिताः।