________________
४८६
प्र० वा. वृत्तौ० (४ परिच्छेदः) आवृतावुपलम्भावरणे शब्दविषयज्ञानजनके श्रोत्रे शब्देषु च विषयेषु सर्वथाऽकिञ्चित्करत्वेनानुपयोगत इत्युक्तं प्राक् । किञ्च (1)
कदाचिग्निरपेक्षस्य कार्याऽकृतिविरोधतः।
कादाचित्कफलं सिद्धं तल्लिङ्ग ज्ञानमीदृशम् ॥१९८॥ सहकारिभिरनाधेयातिशयत्वन्नित्यस्य कदाचित् प्रयत्नकाले कार्यस्य ज्ञानस्य(1) कृतिविरोधतः कारणात् तच्छ्रतिविषयं ज्ञानं कादाचित्कस्यानित्यस्य शब्दस्य फलं लिङ्ग कार्यमीदृशं नियमेन प्रयत्नानन्तरभावि सिद्धम् ॥(१९८)
(३) कार्यस्वभावहेत्वोर्निर्देशस्य फलम् एतावतैव सिद्धपि स्वभावस्य पृथक् कृतिः।
कार्येण सह निर्देशे मा ज्ञासीत् सर्वमीदृशम् ॥१९९॥ एतावता प्रयत्नानन्तरीयकत्वेनैव स्वभावहेतुनिर्देशेपि सिद्धे प्रयत्नानन्तरमुत्पादस्याभिव्यक्तेश्च तथाभिधानात् तथापि स्वभावस्य कृतकत्वस्य हेतोर्या
पृथक्कृतिः सा कार्येण सह श्लेषण निर्देशे मा ज्ञासीत् प्रतिपत्ता सर्व स्वभावहेतुमी99a दृशं सपक्षे द्विधावृत्ति कृतकत्वादेः विपर्ययव्याप्तिसम्भवात् । (१९९) किञ्च (1)
व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता।
अत्र प्रभेद आख्यातः लक्षणन्तु न भिद्यते ॥२०॥ अनुमितौ स्वार्थानुमाने हेतूक्तिरुक्तार्थाऽभिहितलक्षणापि प्रतिपत्तॄणां व्युत्पत्यर्था च परार्थानुमाने कृता। अत्र च प्रभेद आख्यातः। लक्षणं पुनर्हेतोर्न भिद्यते। तथाविधलक्षणहेतुवचनस्य परार्थानुमानत्वात् । (२००)
तेनात्र कार्यलिङ्गन स्वभावोप्येकदेशभाक् ।
सदृशोदाहृतिश्चातः प्रयत्नाद् व्यक्तिजन्मनः ॥२०१॥ तेन प्रयत्नान्तरीयकत्वेन कार्यलिङ्गन श्लेषनिर्देशात् । स्वभावहेतुधर्मभाजा स्वभावोपि सपक्षकदेशभाक् भवति इत्युक्तो भवति। अत एव कार्य
' श्रुतिपरीक्षायां। २ स्वार्थानुमानोक्तात् ।