________________
हेतुलक्षणम्
४८५
तद्गमकत्वेन विरुद्धता नान्यस्येत्यर्थः । व्यतिरेकी' अन्वयी च हेतुरिति परेषां विवादात् तत्प्रतिषेधार्थं भेदसामान्येऽसाधारणसाधारणे श्रावणत्वप्रमेयत्वे निद्दिष्टे । यदि विपक्षे नास्तीति सात्मकत्वे साध्ये प्राणादिमत्वं हेतुस्तदा श्रावणत्वमपि स्यात् । न चैवं (1) तस्मान्न व्यतिरेकी हेतुः । यदि च केवलान्वयिनो दर्शनमात्राध्यवसिताव्यभिचारस्य हेतुत्वं तदा प्रमेयत्वस्याकाशादौ दर्शनादव्यभिचारनिश्चये सति शब्दे नित्यत्वगमकत्वं स्यान्न चैवं । ततो न केवलान्वयी हेतुः । शेषोऽप्रयत्नोत्थः शब्दोऽनित्यत्वात्। नित्यः शब्दोऽस्पर्शवत्वात् । प्रयत्नानन्तरीयः शब्दोऽनित्यत्वादिति हेतुत्रयं विपक्षाद्धेतोर्व्यावृत्तिसाधनः ।
यदि हि सपक्षे दर्शनमात्रेण गमकत्वं तदैते हेतवः प्राप्ता: ( 1 ) सर्व्वेषां सपक्षे सत्वात् ँ (।) तस्मान्नान्वय सम्बन्धमात्रेण गमकत्वं (1) किन्तु विपक्षाद् व्यतिरेकनिश्चये न चास्ति व्यतिरेकनिश्चयः ( 1 ) प्रधानं हेतुत्वनिबन्धनमित्यर्थः । कथं पुनर्ज्ञायते स्वभावहेतुः कृतकत्वं । कार्यहेतुः प्रयत्नानन्तरीयकमित्याह ।
न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे । सम्भवाद् व्यभिचारस्य द्विधावृत्तिफलं ततः ॥ १९६॥
न हि स्वभावाद्धेतोरन्येन हेतुना गम्यस्य साध्यस्य व्याप्तिः । यत्र यत्रानित्यत्वं तत्र कृतकत्वमिति दृश्यते च व्याप्तिः ( 1 ) तस्मात् स्वभावहेतुरेव । नावश्यं कारणानि कार्यवन्ति भवन्तीति कारणे कार्यस्य व्यभिचारसम्भवात् । कार्यं कारणव्यापकं न भवति । तत्र सपक्षे द्विधावृत्तिभावाभावात् प्रत्यत्नानन्तरीयत्वं फलं कार्यहेतुः प्रयत्नकार्यस्य तथाभिधानात् ।
५
ननु प्रयत्नजेन ज्ञानेनानित्यः शब्दोऽनुमेय इष्टः ( 1 ) शब्दाश्च नित्या एव तद्विषयज्ञानोत्पादादिना यत्नेन ते व्यज्यन्ते (1) तत्कथं कार्यहेतूदाहरणमिदमित्याह । प्रयत्नानन्तरं ज्ञानं प्राक्सतो नियमेन न । तस्यावृत्य क्षशब्देषु सर्वथाऽनुपयोगतः ॥ १९७॥
प्रयत्नात् प्राक् सतः शब्दस्य नियमेन प्रयत्नानन्तरं ज्ञानं न युज्यते। प्रयत्नं विनापि कदाचिदुपलभ्येत । न च प्रयत्नव्यज्यता शब्दानां युक्ता । तस्य प्रयत्नस्य
१ नैयायिकस्य । २ कारणेपि व्याप्तिः स्यादित्याह ।
४ शब्दोच्चारणप्रयत्नानन्तरजं शब्दालम्बनं ज्ञानं ।
* भवार्थे गहादित्वाच्छः प्रयत्नानन्तरीयकत्वं घटादौ सत् विद्युदादौ चासदिति सपक्षे द्विधावृत्तिर्यतः ।
* स्वभावहेतौ