________________
४८४
प्र० वा. वृत्तौ० (४ परिच्छेदः) एव बुद्धिस्थीकृत्य विशेषणे'न व्यवच्छेदो नेतरस्यति लोकप्रसिद्धेः। विवक्षाया अनुगमात् ध्वनेर्व्यवच्छेदादौ सामर्थ्यान्नाविवक्षितव्यवच्छेदः । यत एवायोगव्यवच्छेदोप्यस्ति (1)
तदयोगव्यवच्छेदाद् धर्मी धर्मविशेषणम्। ..
तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥१९४॥ तत् तस्माद् धर्मी पक्षो धर्मस्यायोगव्यवच्छेदाद् विशेषणं धर्मिणो नाधर्मो हेतुरित्यर्थः। अयोगव्यवच्छेदात् तेन धर्मिणा विशिष्टतया धर्मो निरन्वयदोषभाग् न भवति।
सपक्षे घटादौ सन् शब्दानित्यत्वे साध्ये कृतकत्वं हेतुः । असन् सपक्षे व्योमादौ शब्दानित्यत्वे साध्ये कृतकत्वं हेतुः। सपक्षे द्वेधा। सन्नसँश्च (1) शब्दानित्यत्वे साध्ये यत्नजत्वं हेतुः। घटादौ सपक्षे सन् विद्युदादौ चासन् । पुनस्त्रिधा (1) सपक्षे सन् असन् सदसँश्च (1) शब्दस्य यत्नजत्वे साध्ये सपक्षे घटादावनित्यत्वं हेतुः सन्। शब्दानित्यत्वे साध्ये यत्नजत्वं हेतुरसन् विद्युदादौ सपक्षे ॥ शब्देऽ यत्नजत्वे साध्येऽनित्यत्वं हेतुः सपक्षे विद्युदादौ सन्। व्योमादौ चासन् । एवं प्रत्येकमसपक्षेपि सन् असन् द्वेधा चेति योज्यं । शब्दनित्यत्वे साध्ये प्रमेयत्वं हेतु: (1) असपक्षे घटादौ सन् (1) शब्दनित्यत्वे साध्ये श्रावणत्वं हेतुरसपक्षेऽसन् शब्द
नित्यत्वे साध्येऽस्पर्शवत्वं हेतुरसपक्षे घटादावसन् (।) बुद्ध्यादौ सन्निति द्विधा 98b पक्षधर्मनिर्देशः। किमर्थं हे'तुप्रकरणे नवधा पक्षधर्मनिर्देशः।
(२) हेतुभेदाः सम्यग्घेतुरसिद्धविरुद्धानकान्तिकहेत्वाभासा एव युक्तनिर्देशा इत्याह ।
स्वभावकार्यसिध्यर्थं द्वौ द्वौ हेतुविपर्ययौ।
विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः ॥१९५॥ स्वभावकार्ययोरेव हेतुत्वेन सिद्धयर्थं तत्र द्वौ शब्देऽनित्यत्वसिद्धयर्थं कृतकत्वप्रयत्नानन्तरीयकत्वाख्यौ हेतू निर्दिष्टौ। तथा शब्द एव नित्यत्वसाधने द्वौ हेतुविपर्ययौ विरुद्धौ हेतुभावे चोक्तौ। यथा हि सम्यग्घेतोः स्वसाध्ये व्याप्यकार्यतया प्रतिबद्धस्य गमक त्वं। तथा साध्यविपर्यये व्याप्यकार्यतया प्रतिबद्धस्यैव
'अपि तु धर्म एव।